पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र । (५.५.)क.१५ श्रावणे मासि सम्माने सर्वा नद्या रजस्वला: (१) ।' इति स्मृत्यन्तरम् । एवंभूतदोषरहितास्वस्वाचभ्य प्रयतो भवति । प्रायत्यार्थमाचमनं भूमिगतास्वप्नु कर्तव्यमिति ॥ २ ॥ यं वा प्रयत आचमथेत् ॥ ३ ॥ यं का प्रयतोऽन्य आवमयेद् सोऽपि प्रयतो भवति । सर्वथा स्वयं वाम हस्तावर्जिताभिरद्भिराचसनं न भवति । एतेन शास्त्रान्तरोतं मण्ड लुधारणामप्याचार्यस्याऽनभिमतं लक्ष्यते। अलाबुपात्रेण नालिकेरपात्रेण वा स्वयमाचमनमाचरन्ति शिष्टाः॥३॥ न वर्षधारास्वाचामेत् ॥ ४ ॥ पूर्वोक्तेन प्रकारेण प्रायत्यार्थस्याचमनस्य वर्षधारासु प्रसङ्गामा वात पिपासितस्य पानप्रतिषेधार्शमिति केचित् । अपर आह-अस्मा देव प्रतिषेच्छिक्यादिस्थकरकादेया धारा तत्र प्रायत्यार्थप्राचम न(२) भवतीति ॥ ४॥ तथा(३) प्रदरोदके ॥६॥ भूमे स्वयं दीर्णः प्रदेशः प्रदर तत्र यदुदकं तस्मिन् भूमिमनेऽपि नाऽऽचामेत् ॥ ५॥ तप्ताभिश्वाऽकारणात् ॥ ६ ॥ तप्ताभिरभिर्नाचामेत् अकारणात् स्वरादौ कारणे सति न दोषः । 'तप्ताभि' रिति वचनात शृतीताभिरदोषः। तथा चोष्णालामेव प्र तिषेधः स्मृतिषु (४)मायो भवति ॥ ६ ॥ रिक्तपाणियस उद्यम्याप उपस्पृशेत् ॥ ७ ॥ वय इति पक्षिनाम ! यो रिक्तपाणिस्सन् वयसे पक्षिण इद्यम्य तस्य प्रोत्सारणाय पाणिमुद्यच्छते स तस्कृत्वाऽप उपस्पुशेत् तेनैव पाणिना । 'रिक्तपाणि' रिति वचनात् काष्ठलोष्टादिसहितस्य पाणेरुद्यमने न दोषः । केचिदुपस्पर्शनमाचमनमाहुः ॥ ७ ॥ १. एतदनन्तर 'त्रिदिनं च चतुर्थऽन्हि शुद्धास्स्युर्जाह्ववी यथा' इत्यर्धभाधिक दृश्यत म. पु. स्मृत्यन्तरं' इति च नास्ति २. न मवत्येव इति ख. ग. पु ३. तस्मात् प्रदरादुदकं नाचामेत्' इति तैत्तिरीयन्नाह्मणम् । प्रायशः इति. ख, पु, स्मृतिधु । इत्यन्तमेव च पुस्तके ।