पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (प.५)क. १५. प्रभूत एषः उदकं च यस्मिन् प्रामे तत्र वासो धार्य धर्म्यः । अत्रापि न सर्वत्र : किं तर्हि ? यत्रामाधीन प्रयमण प्रायत्यं मूत्रपुरीषप्रक्षालना- दीनि यत्रामाधीनानि तत्र ! यत्र तु कूपेन्बोदकं तत्र बहुकूपेऽपि न वस्तव्यम् । ब्राह्मणग्रहणाद्वर्णान्तरस्य न दोषः । श्रामग्रहणादेवभूतेषु घोषादिष्वपि न वस्तव्यम् ॥ २२ ॥ मूत्रं कृत्वा पुरीषं वा भूत्रपुरीषलेपानन्नले पानु. च्छिष्टले पान रेतसश्च ये लेपास्तान्प्रक्षाल्य पादौ चाऽऽचन्ध प्रयतो भवति ॥ २३ ॥ मूत्रं पुरीष वा कृवा उत्सृज्य तयोर्मूत्रपुरीषयोर्ये लेपास्तस्मिन्प्रदेशे स्थिता प्रदेशान्तरे वा पतिता तान् सर्वान् । (१)अन्नलेपश्चिानुच्छिष्टा नपि उच्छिषुलेपश्चिानचलेपानपि । तथा रेतसश्च ये लेपाः स्वप्नादौ मैथुने वा तान् सर्वानद्भिर्मदा च प्रक्षाल्य पादौ च लेपवर्जितावपि प्रक्षाल्य पश्चादावम्य प्रयतो भवति । अत्र मृस्त्रमाणस्य सङ्खचायाश्चानुक्तत्वात यावता गन्धलेपक्षयो भवति तावदेव विवक्षितम् । तथा च याज्ञवल्क्य:- (२)गन्धलेपक्षयकर शौच कुर्यादतन्द्रितः।' इति । देवलस्तु व्यक्तमाह-- (३) यावत्स शुद्धिं मन्येत तावच्छौचं समाचरेत् । प्रमाण शौचसयायान शिष्टरुपदिश्यते ॥' इति । पैठानसि- 'सूत्रोच्चारे कृते शौच न स्यादन्तर्जलाशये। अन्यत्रोदधृत्य कुर्यात्तु सर्वदैव समाहितः। इति ॥ २३ ॥ इत्यापस्तम्वधर्मसूत्रवृत्तौ पञ्चदशी कण्डिका ॥ १. अन्नले पानुच्छिष्टानम्युच्छिष्टलेपानन्नलेपानपि. इति स्व. पुस्तकेऽपपाठः । २. या. स्मृ. ११७. ३ मुद्रितदेवलस्मृताविद वचन नोपलभ्यते।