पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमते हयग्रीवाय नमः श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषितम् आपस्तम्ब श्रौतसूत्रम् श्री कौशिकरामाग्निचिद्विरचिता वृत्तिः नमस्त्रैलोक्यनिर्माणसहृतित्राणकर्मणे । चित्मदानन्दरूपाय विष्णवे परमात्मने ॥ १ ॥ [ग्रन्थावतार:] आपस्तम्ब नमस्कृत्य धूर्तस्वामिप्रसादत । तद्भाप्यवृत्ति क्रियते यथाशक्ति निरूपिता ॥ २ ॥ न व्यवस्थाप्यते वस्तु स्वबुद्धिस्तु नियम्यते । को वा समर्थो वेदार्थनिर्णयेऽत्यन्तगहरे ॥ ३ ॥ कौशिकेन तु रामेण श्रद्धामात्रविजृम्भित । वेदार्थनिर्णये यत्न' क्रियते शक्तितोऽधुना ॥ ४ ॥ यथाभाष्य यथाप्रज्ञ कृता । वृत्तिमिमां मया । विद्वांसस्त्वनुगृह्णन्तु प्रसन्ना वीतमत्सराः ॥ ५॥ 2 वेदभाष्यानुसारेण यथाशक्ति प्रकल्पितम् । अल्पार्थमपि मद्वाक्य श्रद्दधानस्य शोभते ॥ ६ ॥ 1 1 व्याख्यामि-घ. 2 वेर्दमागानु - क