पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं ६, सू २] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 51 (भा) उपवेषादीनीध्माभिधानानि गौणानि प्रकृतार्थाभिधानात् । अर्थ लक्षण इध्मो वर्षीयानर्थादितिलिङ्गात् । त मणयित्वा युगपत्सभरति सर्वम् ॥ १ ॥ (सू) कृष्णोऽस्याखरेष्ठो देवपुरश्चर सध्यासं त्वति संनयति । पुरस्तात्प्रत्यञ्चं प्रन्थिमुपगूहति पश्चा- त्प्राश्चं वा । अनधो निदधाति । इष्मप्रव्रश्चनानि निदधाति ।। २ ।। ३६ ।। ५८ ।। [उपवेषस्यानिध्मता] (वृ) - उपवेषादीनि – र्थाभिधानादिति - इध्मसमरणमन्त्रे उपवेष मेक्षण धृष्टिम् इत्युपवेषस्याभिधानत्रयनिर्देशादुपवेषादीनीति पदभेदा- भिप्रायेण बहुवचनम् । ते शब्दा. गौण्या वृत्त्या इध्ममेव प्रतिपादयन्ति काष्ठसामान्येन न तूपवेषस्ये ध्मान्तर्भाव | प्रकृतार्थाभिधानादिति गौण- त्वे हेतु, मन्त्रम्य प्रकृतेघ्माभिधानपरत्वात्। अनुष्ठेयार्थप्रकाशका हि मन्त्रा ॥ [इध्मस्यार्थलक्षणताहेतु.] अर्थलक्षण इध्म-लिङ्गादिति – पितृयज्ञे हविर्बहुवे वर्षीयस्त्व- दर्शनात् सर्वत्रार्थलक्षण इध्म । आघारप्रभृतिप्रज्वलित इध्मस्तत्कर्मणि स्विष्टकृदन्त हविर्यावता स्थौल्येन युक्तश्शक्नोति दग्धुम् तावता स्थौल्येन युक्तो ग्रहीतव्य । स चं प्रादेशायाम | अन्याजसमिध । आधारसभेदात्प्रागाहवनीयदेशपरिमितत्वावगते । तंगणयित्वा -- सर्वम् – त – इध्मम् | सभरतीति ॥ - 1 गणयित्वा - अ 2 यित्वा शुल्बम् (मुरा) 3 मन्तर्भाव - क + ग्रहातव्यो भारद्वाजमतात् । द्विप्रादेश इध्मो बैलीकेरिती बैलीकिमतेन दीर्घत्व लक्षणम् । पूर्वमर्थलक्षण इति स्थूलत्वे | अन्यस्य तु अर्थलक्षण इति । दीर्घत्वमप्यर्थलक्षणमन्येषा मतेन । इत्यधिकम् । (मु रा ) इद तु उत्तरत्र वत्सञ्जुसूत्र भाष्यवृत्तिग्रन्थरूप दृश्यते इह त्वस्थानमुद्रित स्यात् 4*