पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १४, सू. १७ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 101 (भा) समानेऽहनि यस्यां पौर्णमासी प्रतिपञ्च तस्यां सद्यो वैतानि, (वृ) प्रधानविरोधादापद्यपि न सद्यस्कालत्वम् । दुग्धे दोहनमश्रा इति भरद्वाजमतात् । लौकिक ' एव वा दधनि मन्त्रप्रयोगोपपत्तेरमावास्याऽपि सद्यस्कालाऽपि लभ्यते ॥ 1 2 [उक्तार्थाक्षेपः] ननु सन्धिममितो यजेतेति श्रुते कर्ममध्ये यथापर्वसन्धिस्तथा कर्तव्यम् । अपि च पौर्णमास्यां पौर्णमास्या यजेतामावास्यायाममावा- स्ययेति प्रतिपत्पर्वसन्धौ यागविधानेनानुष्ठानासभवाद्धि तत्सबन्धिकाला- न्तरे यागसंभव इति ? सत्यम् ; [उक्तवचनतात्पर्यम् ] एतानि वचनानि सधिलक्षितपूर्वापरतिथिपराणि । इष्टिपश्चादी- नाममावास्यादि सत्यपि श्व. पूरितादिपक्षे श्व. प्रकृतिमिष्ट्वा आरम्भमध्ये सन्ध्यभावे अनुष्ठान विरोधात् || [ न तेषां सन्धिमदहोरात्रत्वम् ] तथा आवर्तनात्परत पर्वसधौ पशुनेष्टा प्रकृत्यारम्भे मध्ये सन्ध्य- भावेऽपि प्रकृत्यनुष्ठानदर्शनाञ्च न सन्धिमदहोरात्रपराणि । औपवसध्ये पर्वसंधौ श्वो यागे सध्यभावेऽपि पौर्णमास्या पौर्णमास्येत्यसंगतेः || [यागकालनिष्कर्षः] अतो मध्याह्नादर्वागेव पर्वसन्धौ पञ्चदश्या यागानुज्ञानात् मध्याह्वात्परतः कलामात्रे सन्धिपक्षे चोत्तरेर्यागविधानाच पर्वण चतुर्थी भागः प्रतिपद आद्यास्त्रय. पादाश्च यागकाल. ॥ [दर्शे पक्षान्तरे विशेषः] अमावास्याया श्वो न द्रष्टार इत्यस्मिन् पक्षे अतिक्रान्त औप- वसथ्येऽपि श्वस्सन्धिसद्भावान्मुख्यकालानुवृत्तिरेव ॥ 1 क्रियन्ते-क 2 एव दधनि- ख, ग,