पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १५, सू ६ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते ( सू) यति पूर्व ब्रह्मणोऽपरं यजमानस्य ॥ १४८ ॥ (भा) गतार्थ ॥ ५ ॥ (सू) उत्तरेण गार्हपत्याहवनीयौ दर्भान् सस्तीर्य द्वन्द्वं न्यश्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि ॥ ६ ॥ ६ ॥ १४९ ॥ [द्वन्द्वत्वमतिभेदः] (भा) द्वन्द्व प्रकरणधर्म । केचित् द्वन्द्व दशसंख्याया 2 एवेच्छन्ति सख्याया अर्थवत्त्वाय | एककार्याणा बहूनामध्येकत्वम् | यथा कपालाना दशत्वसंख्या ॥ ६॥ [प्रकरणधर्मतास्वरूपम् ] (वृ) द्वन्द्वं प्रकरणधर्म इति – सर्वपात्राणामत्र साधमानानां अन्वा- हार्यस्थास्यादीनामपि द्वन्द्वत्वम् || [भाष्योकपक्षान्तराशयः] 105 केचित् द्वन्द्वत्वं दशसंख्यायामेवेच्छन्ति । संख्याया अर्थ- वत्त्वाय – दशापराणि दश पूर्वाणीति दशभ्योऽधिकानामपि साद्यमान- त्वात् सङ्ख्यानियमोऽनर्थकस्स्यात् । अतो दशानामेव द्वन्द्वनियमार्थ योपादानमिति || एककार्याणां बहूनामप्येकत्वम् – 'द्वन्द्वनिषाने ॥ [दृष्टान्तोपपत्तिः दृष्टान्तान्तरं च] - यथा कपालानां दशत्वसङ्ख्या • स्फ्येन सह कृत्वेति यथा कपालाना स्फ्येन सह द्वन्द्वकरणे कपालानामेकत्वं कृत्वा दशसङ्ख्यानिर्देशः । दोहसस्कारार्थत्वात्प्रातर्दोहपात्राणा उपवेषेण सह प्रयोगः । शम्ययाऽऽहननपक्षेऽश्मनो निवृत्तिः । पात्रप्रयोगात्प्राक्प्रणीं- 3 त्वम्, 1 प्रक्षाल्यैव प्रयुनक्तीति कल्पान्तराणि (रु) आद्वन्द्वनिधानात् - क. ख. व्यमापाद्वन्द्वनिधान -झ. 2 ख्यायामेवे -ग.