पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

106 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने पञ्चम पटल 'स्फ्यश्च कपालानि चेति यथासमाम्नातमपराणि प्रयुज्य स्रुवं जुहूमुपभृतं ध्रुवां वेदं पात्रीमाज्य- स्थालीं प्राशित्रहरणमिडापात्रं प्रणीताप्रणयन- मिति पूर्वाणि ॥ ७ ॥ ७ ॥ १५० ॥ [खं १५ सू, ७ [स्फ्यादिस्वरूपादि] (भा) स्फ्योऽस्याकृतिः । 2 भिन्नस्य कपालानि । अभिन्नस्यापि रौहिण- कपालवदेके । शूर्पमैषीकम्; वर्षवृद्धा इषीका इति लिङ्गात् । वैणव

(वृ) तानयनपक्षेऽन्वाहार्यस्थाल्या सहेडापात्र प्रयोग | स्फयोऽस्याकृतिरिति — असेरिवाकृति स्फ्यस्य || भिन्नस्य – घटादे; - . कपालानि-लौकिकार्थपरिग्रहणात् । अभिनान्यपि ——वदेके एतस्या एव मृदो रौहिणकपाले करोतीति दर्शनात् मृदा कपालानि कर्तव्यानीत्येके | [श्रौतलिङ्गनिर्वाहः स्वाशयश्च] शूर्पमैषीकम् – वर्षवृद्धा इषीका इति लिङ्गादिति – वर्ष- वृद्धमसीति शूर्पो' पोहने विनियोगात् वर्षवृद्धा इषीका इति वाक्यशेषा- दैषकि शूर्पम् । चातुर्मास्ये त्वैषीकशूर्प इति दर्शनात् अन्यत्र लोकसिद्ध- मिति सूत्रकारमतिः ॥ 1 एवमत्र संख्ययोपदेशादेव सिद्धे पूर्वसूत्रे दशत्वसख्या वचन विकृतिष्वन- योर्दशकयोर्मध्ये पात्रविवृद्धै सत्या तैस्सहापि दशत्वसपत्तिरेव यथास्यान्नाधिकास- ख्येति । तत्र च लिङ्ग कपालभूयस्त्वेऽपि 'एतानि वै दशयज्ञायुधानि' इति दश त्ववचनम् । तेनाप्रयणादावुलूखलादीना नानात्वेऽपि कपालबत्समानकार्याणां अनेके- षामप्यकैकषत्करणन द्वन्द्वप्रयोग । एवं पूर्वदशकेऽपि पश्वादिषु द्वितीया जुहू द्वितीया- मुपमृतमित्यादौ जुह्लादीना द्रष्टव्यम् (रु). 2 भिन्नस्य घटादे अभिन्नान्यपि -ग ख ग घ उपपहनने (मु. रा )