पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXV श्रौतसूत्रमितिव्यपदेशमूलम् दर्शपूर्णमासादि प्रयोगनिरूपणपरस्य कल्पसूत्रभागस्य श्रौत- सूत्रमित्यपि व्यवहारः प्रचरात । तमेव व्यवहारमवलम्ब्य वयमपि श्रौतसूत्रमित्येव नाम निरदिशाम । अत्र च मूलं भाष्यकारवृत्तिकार- व्यवहार एव, तथाहि- पञ्चमे प्रश्न द्वितीयखण्डादौ नान्दीश्राद्धप्रकारमुक्ता 'एष सर्वत्र विधिः श्रौतस्मार्तानां चादौ । न नित्यम्, आपस्तम्बेनानि- बन्धनात्' इति धूर्तस्वामी । अत्र रामाण्डारः ; - 'अनिबन्धनात् श्रौते स्मार्ते च' इति । तथा च कल्पव्यपदेशः गृह्यादिसाधारण इत्यपि स्वरसत एव सिध्यति । गृह्यधर्मपितृमेधघटितामेव कल्पसूत्रगणनां निबध्नन्ति व्याख्या- तारो रत्नमालाकारादयः । कल्पसूत्रोपक्रम. कः ? कल्पसूत्रं चापस्तम्बीयं किमुपक्रममिति विचारयामः- तत्र तावत् 'अथातो दर्शपूर्णमासौ व्याख्यास्याम' इति दर्शपूर्णमास प्रकरणे प्रथमं सूत्रम् | तञ्च विवृण्वन् रुद्रदत्तः 'अथ शब्दोऽयं प्रकरणारम्भे प्रायः प्रयुज्यते वृद्धैः । क्वचिदानन्तर्येऽपि, यथा— इमे भृगवो व्याख्याताः अथाङ्गिरसाम्' इत्यादौ । न पुनरिहानन्तर्यार्थः वृत्तस्य कस्यचिदनन्तरस्यानुपलम्भात् इत्याह । अनेन च ग्रन्थेन ‘अथातो दर्शपूर्णमासौ' इत्यारभ्य कल्प- सूत्रं प्रवृत्तमित्यवगम्यते । 1 आह च विशदमेव समाम्नाये दर्शपूर्णमासमन्त्राणामेव प्राथम्यात् तावेवाग्रे व्याख्यास्यन्नधिकारं दर्शयति' इति । सायणादर्वाचीनः चौण्डपाचार्योऽपि प्रयोगरत्नमालायाम्- त्रिंशत्प्रश्नात्मकं सूत्रमापस्तम्बमुनीरितम् | श्रौतगार्ह्य स्मार्त कर्मबोधकं तत्र पञ्चभिः ||