पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXVI. इत्युपक्रम्य- . त्रयोविंशे ततः प्रश्न सत्रायनविधिक्रमः । चतुर्विंशे तत. प्रश्ने न्यायप्रवरहौतृकम् ॥ पञ्चविंशे च षशे गार्ह्यमन्त्राः प्रपञ्चिताः । प्रश्नेऽथ सप्तर्विशे स्यात् गार्ह्यतन्त्रविधिक्रमः ॥ अष्टाविंशैकोनत्रिंशप्रश्नयो. स्मार्तसत्क्रियाः । सामान्यतो विशेषेण त्रिंशे शुल्ब विनिर्णयः ॥ एवं सामान्यतस्सर्वप्रश्नानामार्थनिर्णयः । इति आपस्तम्बीयकल्पनिखिप्रश्नार्थसंग्रहप्रसङ्गेन परिभषाभागस्य चतुर्विंशप्रश्नघटकतामुपवर्णयन् न परिभाषाप्राथम्य- पक्ष सूचयत्यपि । न्यायसंज्ञया अस्या एव प्राच्यकोशशालायाः पुरा मुद्रितप्रकाशिते कपर्दि स्वामिनो हरदत्तस्य च व्याख्ये इति प्रथेते । तयोः कपर्दिभाष्यनानि ग्रन्थे 'व्याख्यानं नाम' इत्यारभ्य तदिदं व्याख्यानं सर्वकर्मशेषत्वादादौ प्राप्तं सत् अन्ते कृतम्: कथं नु नाम आधिकारनिरूपणादि यथासभवमाचारगृह्यकर्मस्वपि प्राप्तं स्यादित्येवमर्थम्' इति परिभाषावतारणं दृश्यते । अनेन च परिभाषाया आदौ करणं प्राप्तमपि तात्पर्यविशेषेणो- पेक्षितं मुनिनेत्यवगम्यते । इष्टिहौत्रकल्पभाष्यविवरणारम्भे वृत्तिकागे रामाण्डार: 'इष्टि हात्रे कल्पकारेण परिभाषाप्रकरणे उक्तेऽपि दर्शपूर्णमासप्रयोगमा कल्यार्थ इह भाष्यकारेणोते' इति भाग्यमवतारयति । अत्र च उक्तेऽपि इत्येतेन परिभाषापाठः पूर्वमेवेति म्फुटमुक्त भवति । अथातो दर्शपूर्णमासौ इति सूत्रार्थवर्णनावमरे च धूर्तस्वामी 'संक्षेपतो यज्ञो व्याख्यातः परिभाषायाम् ; विस्तरेण दर्शपूर्णमासा वनन्तर व्याख्यायेते । अतश्शब्दो हेत्वर्थ: ' इत्याह | अत्र अनन्तरं इति अतश्शब्दो हेत्वर्थ इति च वदतो भाष्यका- रस्य परिभाषाप्राथम्यमेवाभिमतम् ।