पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T xxviu व्याख्यान सौकर्याय भाष्यकारादिभिरने व्याख्यानात् अन्तेऽध्येतृभि- रधीयते । तत्प्रणयनं त्वादावेवेति मन्तव्यम्, सामर्थ्यरूपलिङ्गस्य पाठबाधकत्वात् इत्युक्तम् । अनेन च विचारेण परिभाषोपक्रमः कल्पनिबन्ध इति स्पष्ट मुक्तं भवति । हिरण्यकेशिलाट्यायनद्राह्यायण शाङ्खायन कात्यायनाश्वलाय- नादि कल्पेषु परिभाषोपक्रमत्वं दृश्यते तत्तद्व्याख्यातृभिरपि स्पष्ट- मुक्तं च । अत्रापि धूर्तस्वामिना चतुर्दगे प्रश्ने द्वितीयपटले 'विकृतौ यथार्थमूह इति सिद्धे पुनर्विधानात् इति परिभाषोक्तं वदताऽ- प्युपदर्शितम् । न हि पुनर्विधानोक्तिः परिभाषायाः पूर्वप्रवृत्तिमन्त- रा युज्यते । सूत्रकोगेषु यद्यपि चतुर्विंशप्रश्नतयैव लेखो दृश्यते सामान्य- प्रश्नस्य न तु परिभाषापृथक्कारः परिभाषाव्यवहारस्तु न्याय- भागस्यैवेति इतो मुद्रितप्रचारिते परिभाषोपोद्धाते दृश्यते । परि- भाषामात्रे न्यायशब्दप्रयोगश्च प्रयोगरत्नमालाकृत्संमतोऽपि : तथाऽपि परिभाषाशब्देन सामान्य सुत्रभागस्यैव व्यवहार एत- त्कल्पसृत्रव्याख्यातृसंमत इति वक्तव्यम्, रामाण्डारेण इष्ट्रि- हौत्रकल्पभाष्यस्यावतरणे 'इष्टिहौत्रे कल्पकारेण परिभाषाया- मुक्तेऽपि ' इति ; 'ब्रह्मत्वं प्रकरण इत्युपदेशः' इति भाष्यविवरणे 'ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोरिति वचनान दर्शपूर्णमासप्रकरणे ब्रह्मत्वपटलाम्नानं हौत्रप्रवरादिवत्' इति च वदता हौत्रभाग- स्यापि परिभाषाव्यपदेशस्य निस्संशय प्रदर्शनात् । " तदेवं परिभाषोपक्रमत्व तद्भावपक्षौ तत्तन्निबन्धूसंमतौ यद्यपि प्रचरतः ; तथापि एकप्रबन्धतया प्रवृत्तयोर्भाष्ययोः प्रबन्धोपक्रमे भिन्नाभिप्रायकत्वं कथं घटताम् ' कपर्दिस्वामिनं हि ;---