पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

148 ( सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २५, सू १४ अनुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुके- नाभितप्य स्फ्येनान्तर्वेदि तिस्रो लेखा लिखति 2 प्राचीरुदीचीर्वा ॥ १४ ।। १७ ।। २४७ ॥ [रेखापवर्गमतिभेदः ] 1 (भा) प्रथन लक्ष्णीकरण च कृत्वाऽङ्गुलिप्रक्षालन यथा न लेपससर्ग । अभिवासयन् वर्तमानेऽभिवासने समाप्ते वा प्राचीरुदीचीरिति लेखापरि समाप्ति प्राच्यामुदीचा वा दिशि प्रागपवर्गा एव तु लेखा । केचिन्निनयनार्थत्वात्प्रत्यगपवर्गा इति ॥ २४७ ॥ [अङ्गालक्षालननौमैत्तिकं उपात्तचनिमित्तमुपलक्षणम्] प्रथन - संसर्ग इति - - एकस्य प्रथने कृते पुनरङ्गुलिप्रक्षाल- नम् । तथा लक्ष्णीकरणे च कृते हविरन्तरलेपससर्गार्थम् | लेपससर्गे हविस्ससर्गनिमित्त नैमित्तिक भवति । एवमुद्वासनावदानेष्वपि अङ्गुलि प्रक्षालनोदकं पात्रीनिर्णोजनेन ससृज्य उल्मुकेनाभिताप कार्य, अभिवासयन् विसृजत इति वचनात् वर्तमानेऽभिवासने वाग्विसर्गः समाप्ते वा । अध्यूहनोत्तरकालम् । अत्र वा वाच विसृजेदिति वचनात् । अविदहन्तश्श्रपयतेति मन्त्रोच्चारणेन वा वाग्विसर्गः ॥ दिशीति – एकैकलेखाग्रसमाप्ति । - [ लेखापवर्गेपरिभाषाविरोधाब्दि परिहार पक्षान्तराशयश्च] प्रागपवर्गा एव तु लेखा: इति - तिसृणामन्त्यलेखा प्राच्या- मेव भवति । यद्यपि परिभाषाया उदगपवर्गत्वमुक्तम् ; तदत्र नोपपद्यते । केचित् निनयनाङ्गत्वात् निनयने प्रत्यगपवर्गनियमात् प्रत्यगप- वर्गा इति वदन्ति ॥ २४७॥ 1 अङ्गुलय प्रक्षाल्यन्ते येन । येन च पात्री निर्णिज्यते तदुभयमपि सहगृहीत जलम् उल्मुकेनोपरि गृहीतेन तापयति । ब्राह्मणेऽप्युक्तम् 2 प्रागायता तथोदीची । ताश्चोभय्योऽपि पश्चिमायामारभ्य पूर्वान्ता लेखा लेखितव्या (रु).