पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करविन्दाधिपोक्तधा, 'पूर्वोक्तानि कर्माणि जीवतां जातकर्मप्रभृ , , तीनि अथेदानीं मृतस्य कर्मोच्यते इति कपर्दिस्वाम्युक्तथा; 'भगवता सूत्रकारेण व्याख्यातानि वैतानिकानि गृह्याणि च कर्माणि अथात: पेतृमेधिकम्' इति गार्ग्यगोपालयज्वोक्तया, गृह्यप्रश्ने,--- श्रुतिलक्षण हविर्यज्ञसोमसंस्थास्सविकृतयो व्याख्याताः । अथा- नन्तरमधिक्रियन्ते कर्माणि गृह्यन्त यान्युत्सन्नपाठब्राह्मणेभ्यस्तानि व्याख्यास्यामः इति भाष्योक्तथा च सोमग्रन्थात्परभावित्वं गृह्य- प्रश्नस्य सिध्यति । ' · XXX चयन प्रश्नभाष्ये 'एकाष्टाका व्याख्याता सूत्रकृता आपस्तम्बेन यामाध्या ' इत्यादीत्युक्तिरप्येतदनुकूला | कपर्दिस्वामिगार्ग्यगोपालयज्ववचोभ्यां गृह्यप्रश्नोत्तरभावित्वं पितृ मेधप्रश्नस्य । हरदत्तवचसा चैतदुत्तरत्वं धर्मप्रश्नस्य सिध्यति । चयन प्रश्न 'शुल्पु व्याख्यातमेतद्ब्राह्मणम् चतुर्भागीयारुक्मम् ' इति भाष्यदर्शनात् शुल्बप्रश्न प्रागेव चयनप्रश्नादित्यगम्यते । सौत्रामणी प्रश्न 'सर्वास्वित्यौ व्याख्यातम्' इति कपर्दि- भाष्यदर्शनात् ततः प्राक्चयनप्रश्न इति सिद्धम् । ततश्च वाजपेयराजसूयसौत्रामणी काम्येष्टयश्वमेधादिप्रश्ना इति । यद्यपि आदौ तावदित्युपक्रम्य 'गृह्यमन व्याख्यातः , इत्यन्त- रामाण्डारवृत्तिपर्यालोचनायां गृह्यप्रश्नोऽपि दर्शपूर्णमासप्रशतः पूर्व इति शङ्का स्यात्, अथातो दर्शपूर्णमासावित्यत्र धूर्तस्वामिना यशविभागे पाक- यशसंस्थानां प्रथमनिर्देशोऽपि सूत्रकारीयं प्रणयनक्रममेव तथा विधं बोधयेदपि तथाऽपि परिभाषाया दर्शपूर्णमासनिरूपणो- पोद्धातत्वकीर्तनपरधूर्तस्वामिभाष्यमनुसृत्य परिभाषानन्तरं दर्श- पूर्णमासप्रश्न एव प्रणीतो मुनिना इति निश्चीयते । अयमत्र भाष्या- शयः ;–यक्षं व्याख्यास्याम इति प्रक्रम्य स त्रिभिदैर्विधीयते इति 6