पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ६, सू १ ] आपस्तम्बश्रौतसूत्रे द्वितीये प्रश्ने द्वितीय पटल इन्द्राणीवा विधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति जपति ।। ९ ।। ५५ ।। ३०५ ।। युक्ता मे यज्ञमन्वासाता इति यजमानः संप्रे- ष्यति ।। १० ।। ५६ ।। ३०६ ।। (भा) युक्ता इत्यन्वासनार्थ । अत परास्वपि दक्षिणीयायाः क्रियते । (सू) बहाज्याभ्यां दर्शपूर्णमासाभ्यां यजत इति विज्ञायते ॥ ११ ॥ ५७ ॥ ३०७ ॥ पञ्चमी खण्डिका ॥ (सू) 171 3 पूषा ते बिलं विष्यत्विति 2 सर्पिर्धानस्य बिल- मपावर्त्य दक्षिणाग्रावाज्यं विलाप्यादितिरस्य- च्छिद्रपत्रे त्याज्यस्थालीमादाय महीनां पयोऽस्यो- षधीना रसस्तस्य तेऽक्षीयमाणस्य निर्वपाभि देवयज्याया इति तस्यां पवित्रान्तर्हितायामाज्य- स्थाल्यामाज्यं निरूप्येदं विष्णुर्विचक्रम इति (वृ) तस्माद्देशादित्यादि – तस्माइक्षिणत पत्लयन्वासनस्थानम्, 'देशाद्दक्षिणत उदीच्यन्वान्ते ' इति विधानात् । यत्पत्नयन्वासीतति सिद्धवदनूद्य देवानां पत्निया समद दर्षातेति निर्देशात् देवपत्नीना तत् स्थानम् । अतो देवपत्नीनामुपस्थान तत्रैव स्थित्वा गार्हपत्योपस्थान च अतो दर्शपूर्णमासयोरन्वावासस्थान दक्षिणतस्तद्विकाराणा च ॥३०४॥ 1 सन्नहनादि सप्रैषान्तो विधि पत्नीसस्कारत्वात् प्रतिपत्न्यावर्तते (रु). 2 सर्पिर्धायते यस्मिन् भाण्डे तत् सर्पिर्धानम् । (रु) बहुभिरत्रकल्प - कारैर्गव्यस्यालाभे अजामहिष्योराज्य तदभावे तेल च प्रतिनिधेयमित्युक्तम्, यथा तदभावे आज्य माहिषं वा तदभावे तैलमित्यादि । तत्र प्रतिनिधित्वात् तैलस्याऽपि आज्यवत् धर्मा द्रष्टव्या । उक्त चैतदाश्वलायनेन (रु),