पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

172 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ६, सू २ दक्षिणाग्नावधिश्रित्येषे त्वेति दक्षिणार्धे गार्हपत्य- स्याधिश्रित्योर्जे त्वेत्यपादाय वेदेनोपयम्य पत्नया उपहरति ।। १ ।। ५८ ।। ३०८ ।। [मन्त्रवाहुल्यजसंशयनिरासतद्धेतू ] (भा) आज्यस्यैव सकलो निर्वापमन्त्र न मधूदकयो, आज्य निरू- प्येति वचनात् ॥ ३०८ ॥ [पत्नीबहुत्वे विशेक्षः] (सू) तत्सा 2 निमील्य वीक्ष्यानुच्छ्वसन्त्यवेक्षते महीनां पयोऽसीति ।। २ ।। ५९ ।। ३०९ ॥ (भा) 3 प्रतिपत्नयवेक्षण तत्सस्कारत्वात् आज्यसस्कारो वा; पुरो- डाशीयावेक्षणवत् । निमीलनावेक्षणे पूर्वं कृत्वा पश्चादाज्यमसीत्यनु- छ्वसता मन्त्रान्तेनावेक्षणम् ॥ ३०९ ॥ [संशायकं परिहारोपपत्तिश्च] (वृ) आज्यस्यैव – वचनात् दधिमधुघृतमापो घाना इत्यत्र यद्यप्या- ज्यविकारत्व मधूदकयो तथाऽपि न तयोर्मन्त्र. दक्षिणाग्नावाज्य विलाप्येति प्रकृतेऽप्याज्य निरूप्येति पुनर्वचनात् ॥ ३०८ ॥ , [प्रतिपत्नि अवेक्षणोपगमोपपादनम् ] प्रतिपत्न्य – रत्वात् – अवेक्षे सुप्रजास्त्वायेति मन्त्रलिङ्गात् । प्रलयवेक्षते मिथुनत्वाय प्रजात्यै इति वाक्यशेषाच्चावेक्षण पत्नीसस्कारः आज्यसस्कारश्च । अत प्रतिपत्नयवेक्षणम् । अतो व्यापत्तौ पुनराज्य- निर्वापेनावेक्षणम् ।। - आज्य - वेक्षणवत्– 'अस्मिनुपक्षे नावृत्तिर्मग्रस्य, सपत्नीयवत् । निमीलनावे –वेक्षणम् ;- पुनः पत्नयवेक्षणेऽपि तुल्यम् ॥ ३०९॥ 1 पत्नयञ्जलौ - ख 2 निमील्यतूष्णीं वीक्ष्य पश्चान्मन्त्रेणावेक्षते । पत्नय- नेकत्वेचा वृत्ति बोधायनेनोक्ता (रु) 3 अत प्रति क. 4 तत्स्थानापन्नत्वात् इत्यधिक (मु. रा). 6 तस्मिन् - क.