पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ७, सू ८ ] आपस्तम्बश्रौतसूत्रे द्वितीयैप्रश्ने द्वितीय पटल (भा) पशु कामस्य वा अकामस्य वा ॥ ३१९ ॥ (सू) दशगृहीतमुपभृति पञ्चगृहीत मितरयरित्येके ।। ७० ।। ६ ।। ३२० ।। (सू) भूयो जुडामल्पीय उपभृति भूयिष्ठं ध्रुवायाम् ।। ७ ।। ७१ ।। ३२१ ॥ 3 शुक्रं त्वा शुक्रायामिति त्रिभिः & पञ्चानां त्वा वातानामिति च द्वाभ्यां जुह्वां चतुः पञ्च- कृत्वो वा प्रतिमन्त्रं पञ्चानां त्वां दिशां पञ्चानां त्वा पञ्चजनानां पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि धामासि प्रिय देवानामनाघृष्टं देवयजन देववीतये त्वा गृह्णामीति चरोस्त्वा पञ्चबिलस्येति च पञ्चभिरुपभृत्यष्टकृत्वो दशकृत्वो वा प्रतिमन्त्रम् ।। ८ ।। ७२ ।। ३२२ ॥ (सू) 175 [सूत्रकारपक्षेणाकामस्थपञ्चगृहीतसंभव.] पशुकामस्याकामस्य वा इति; — अस्यार्थ– पशुकामस्य पञ्चगृहीतमित्येतावता काम्यपक्षे सिद्धे विकल्पनिर्देशात् कामनारहित- स्यापि पञ्चगृहीत लभ्यते । चतुरवत्तिनोऽपि यथाप्रकृतीतरयोरिति अस्याभिप्राय । पञ्चगृहीतमितरयोरित्यादि; – पञ्चावत्तिनां वक्ष्यमाणत्वात् - तदत्रापि प्रसज्यत इति शङ्का मा भूदिति ॥ ३२० ॥ 1 नाय कल्प काम्येन पूर्वेण कल्पन विकल्पते किंतु पूर्वतरेण नित्येन (रु) 2 गृहीतमुभयोरित्येके इति रुद्रदत्तपाठ 8 उपभृति प्रयाजानूयाजार्थी द्वाविमौ पञ्चमन्त्रकौ गणौ । तद्यात्कश्च पञ्चमन्त्रान्त इति करण । तत्र यदाऽष्टगृहीत तदा गणान्त्ययो पञ्चमदशमयोप । तथा प्रायणीयोदयनीययो प्रयाजानूयाजाना अन्यतराभावे तदर्थस्य गणस्य लोप (रु)