पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

182 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ९. सू ८ [ अभिमन्त्रणस्य परिध्यङ्गतातद्धेतू] सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीय मभिमन्त्र्यो - पर्याहवनीये प्रस्तरं धारयन्नग्नि कल्पयति ॥ ७ ॥ १३ ॥ ३३८ ॥ (भा) सूर्यस्त्वा पुरस्तात्पात्विति 2 परिध्यङ्गमित्युपदेशः । आदित्यो- ह्येवोद्य निति वचनात् ! तस्मान्नावभृथे स्तीर्णपक्षे गृहमेघीये च । अग्नि कल्पयति बलबन्त करोति ॥ (भा) अनूयाजार्थे प्राची उल्मुके 'उहतीति 'वाज- सनेयकम् ।। ८ ।। १४ ।। ३३९ ॥ प्राची नयत्युल्मुके विकल्पेन वाजसनेथिमतात् ॥ [परिध्यङ्गत्वे हेतुफलयोरुपपादनम्] (वृ) सूर्यस्त्वा – लिङ्गात् धीये च – अयमभिप्रायः,—परिघन् परिदधाति रक्षसामपहत्या इति परिधानस्य रक्षोहननार्थत्वात् न पुरस्तात्परिदधाति आदित्यो ह्येवोद्यन् पुरस्तादित्यादित्यस्य रक्षोहन्तृत्वेन कीर्तनात् सूर्यस्त्वा पुरस्तात्पात्विति सूर्यस्य रक्षितृत्वेन निर्देशात् परिधिपरिधानाङ्गता आहवनीयाभिमन्त्रणस्य | अतः परिधिपरिधाना- भावे अवभृथादौ निवृत्तिः । उपसदि तु तत्परिधिताः परिधयः इति पक्षे परिधिसद्भावेऽपि परिधानाभावा निवृत्ति । परिधानपक्षे भवत्येव । परिध्यङ्गमिति—परिधानक्रियाङ्गमित्यर्थ ॥ अग्नि करोति – इध्मेन ॥ 1 पुरोभागपरिधानार्थमभिमन्त्रणम्, मन्त्रलिङ्गात् तथा न पुरस्ता- दित्यादि वाक्यशेषात् बोधायनवचनाच्च । तेनोपसदवभृथादिषु परिध्यभावे नभवत्यभिमन्त्रणम् (रु). 2 परिध्यज्ञमुपदेश - क. 3 निति लिङ्गात्, क 4 उद्हति – प्राग्भागे करोति (रु) 5 वाजसनेयग्रहणमादरार्थम् । न तु कल्पनेन विकल्पार्थम् अपिसृज्योल्मुके इत्युत्तरत्र नित्यवदनुवादात् सत्याषाढेन व्यक्त- वचनाच, (रु).