पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Xxx111 तत्र कति प्रश्ना धूर्तस्वामिना कति च कपर्दिस्वामिना व्याख्याता इति विशयं पर्यहार्षीत् त्रैविद्यवृद्धः प्रयोगदीपिकाकृत् तालवृत्त- निवासी । तेन हि, 'आपस्तम्बीयसूत्रस्य धूर्तस्वामिव्याख्यानुसारेण शास्त्रान्तर- सिद्धानपेक्षितानुपसंहृत्य अग्निचयनपर्यन्तानां कर्मणां प्रयोगवृत्तिः क्रियते' इति स्वग्रन्थारम्भे; 6 कपद्येभिप्रायेण 'वाजपेयाढि विश्वसृजामयनपर्यन्तानां कर्मणां प्रयोग उच्यते इति स्वग्रन्थमध्ये वाजपेयारम्भे प्रतिज्ञायते । अनेन च आदितो धूर्तस्वामिना वाजपेयमारभ्य कपर्दिस्वामिना च भाष्यं प्राणायीति सूचितं भवति । , " उभाभ्यां पृथगेव भाष्यं समग्रमेव रचितमित्यपि कुतो न कल्प्यतामिति चोद्यं तु ग्रन्थोपलम्भमात्रनिरस्तमपि तटस्थप्राचीन- प्रामाणिक निबन्धृवचस्संवादेन निरस्यामः । श्रीमन्निगमान्तदेशिक- विरचितायाः श्रीभाष्यसारसङ्ग्रहरूपाया अधिकरणसारावल्याः ११ शश्लोकविवरणे तत्तनयैः वरदनाथाचार्यैः कर्मकाण्डे जैमिनिः देवताकाण्डे काशकृत्स्नः शारीरके बादरायण इति कर्तृभेदाच्छास्त्र- मेदमाशङ्कय 'न ह्येकस्य कार्यस्य एक एव कर्तेति नियमोऽस्ति ! दृश्यते हि पूर्वोत्तरयोवृत्त्योः एकनिबन्धत्वमापस्तम्बीयस्सूत्र- व्याख्यानयोर्धूर्तस्वामिक पार्देस्वामिनिबन्धनयोरपि ' इत्युक्तम् ॥ वसन्त- एवम् अष्टमप्रने प्रथमपटलान्ते यो वै वसन्तोऽभूत् ' इत्यादि- सूत्रे 'पुनर्वसन्तादिनियमात्' इत्यादिभाष्यमुपादाय शब्दार्थविचारं प्रक्रम्य 'अत्र कपर्दिस्वामिना 'शिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्ते' इति सूत्रे ' द्वादशप्रथमराश्योर्यदा सूर्योदय- स्तदा वसन्त इत्युक्तत्वात् " इति रामाण्डारवृत्तेर्दर्शनात् (२१ - २ - ८) सूत्रस्थं कपर्दिभाप्यं प्रमाणयता रामाण्डारेण तत्र धूर्तस्वामिना भाष्याप्रणयनं सूच्यते । न हि सदपि तत्र धूर्तस्वामिभाष्यं नालं विवक्षितार्थसाधनायेति निपुणतरमवश्यापेक्षिताखिलगूढार्थनिरू- SROUTHA VOL. I.