पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १३, सू ४] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने तुरीय पटल 201 ( ख) सुयमे मे अद्य घृताची भूयस्तथ्स्वावृतौ स्रपावृतावित्युपभृति जुहूमत्यादधाति "। मुखतोः भिहृत्य मुखत ऽउपावहरति सर्वत्रैवमत्याधानो- पावहरणे ’ भवतः ॥ ३ । १३ । ३७४ ॥ [अत्याधानादमन्त्रकता] (भा) अत्याधानोपावहरणग्रहणानि तूष्णीमन्यत्र । (सू) न च ‘सशिञ्जयति नाभिदेशे च सुचौ धारयति ॥ ४ ।। १४ ।। ३७५॥ (हृ) मग्नस्य अवभृथेऽप्यनूढेन प्रयोग इति । तुशब्दात्पूर्वपक्षव्यावृत्तिः । देवताभेरभिधायकोऽभिशब्दः वरुणप्रघासावभथ दर्शितत्वात् । एष हि देवेभ्यो हव्य ४ भरतीति अग्निर्वै देवानां यष्टेति देवतायामुपपद्यते नाधिकरणेऽसौ। स्थलजलाद्यधिकरणेषु तत्तद्देवताभ्यश्च इयमान हवि देवताभिरेव वहति तस्मादवभृथेष्वपि तस्यैवाभिधानमिति ॥ ११५ ।। ।। ३३९ ।। [अन्यायाधानपदयोरर्थः भाष्याशयश्व] अत्यधानमन्यत्रोते–आधारादन्यत्र जुहूपभृतोषंहण- मस्याधनम् । उपावहरण च तूष्णीम् । उपावहरणमत्राभावेऽप्यनास्थया भाष्ये निर्देश । आघार एव मन्त्रोपदेशात् अन्येषां तत्प्रकृतित्वाभावात् तूष्णी क्रियामात्रानुष्ठानम् । अथवा मुखतोऽभिहृत्य मुखत उपावहर तीति क्रियाप्रकारमात्रमुपदिश्यातिदेशात् समनन्तरवाक्यस्थस्यातिदेशो युक्त इति 1अत्यादधाति--स्थापयति (रु) 2 मुखेनाभिहृत्य-अभिमुखे कृत्वा (छ) उपावहरति---अपादत्ते (रु) हरतीति–ख. 4 मन्त्रस्तु प्रकरणादाख़रार्थ एवेर्यो नान्यत्र (रु). 5 शब्दाययाति (रु) 6 वहतीति–क 7 यौहूय-ध.