पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पणपरस्य धूर्तस्वामिनो भाष्यकृतो न्यूनतां शङ्कितुमर्हति कश्चिन्नि पक' । XXXIV नापि भाष्यभागद्वयैककण्ठ्यं पृथक्समग्रभाष्याप्रणयनं त्र म न्वानः सुगृहीतसम्प्रदायस्तालवृन्तनिवासी अवहितपरिपालनीये कर्मानुष्ठानमार्गे सम्प्रतिपन्ने प्रमाणे ऐच्छिकौ परिग्रहपरित्यागौ चिकीत् । सन्तमिममंशं वरदनाथाचार्यवचसा साध्वेव परिकलयन्ति विमर्शकाः । परिभाषा धूर्तस्वामिना न व्याख्याता. धूर्तस्वामी परिभाषाप्रश्ने भाष्यकृन्न वेति विचारयामः दशम- प्रश्नाद्यसूत्रभाष्यवृत्तौ 'यत्त्वयं भाष्यकार ' इत्युपक्रम्य “परिभाषायां व्याख्यातत्वाच्च न व्याच तस्येदं प्रयोजनम् - परिभाषाप्रभृति प्रायश्चित्तपर्यन्तं यदुक्तमत्रापेक्षितं तत्तत्र यथा व्याख्यातं तथेह प्रतिपत्तव्यम्, यथा 'दीक्षणीयायास्तन्त्रं प्रक्रमयति' इत्यत्रा- व्याख्यातस्तन्त्रशब्दः; तन्त्रमित्यङ्गसमुदाय इति दर्शपूर्णमासयो- र्व्याख्यातत्वात्" इत्युक्तम् । अनेन च परिभाषाया धूर्तस्वामिना व्याख्यातत्वं प्रतीयते । ८ , एवं तञ्जानगरस्थप्राच्यकोशागारसूच्यां धूर्तस्वाभिकृतं सामान्यसूत्रभाष्यं निर्दिश्यते । बहुपु परिभाषाव्याख्यानकोशेषु धूर्तस्वामिभाष्यमित्येव लेखोऽपि दृश्यते । तथा उषानाम्नयां पत्रिकायां आपस्तम्बपरिभाषासूत्रभाप्यं धूर्तस्वामिप्रणीतं मुद्राप्य प्रकाशितम् तच्चाद्राक्षमिति परिभाषा - सूत्रव्याख्याप्रकाशका म. रा महादेवशास्त्रिणो व्यलिखन् । , तञ्जानगरप्राच्यकोशसूची प्रकाशकश्च स्वनिर्दिष्टं सामान्य- सूत्रभाष्यं महीशूरपुरप्राच्यकोशागारतः प्रकाशितम् । तत्र चात्रत्य- कोशात्कियन्तश्चिदेव वर्णमात्रकृताः पाठभेदा दृश्यन्त इति इतः प्रकाशितयोर्व्याख्ययोर्हरदत्तीयव्याख्यां निर्दिशति ।