पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXXV हरदत्तकृतपरिभाषाव्याख्या च दर्शपूर्णमासव्याख्या प्रतिज्ञा- सूत्रस्थधूर्तस्वामिभाष्यसरूपभूयोभागोपक्रमा धूर्तस्वामीयत्वसम्भाव- नामुपोद्दलयेदपि । तथाऽपि धूर्तस्वामी परिभाषाप्रश्न भाष्यमकरोदिति चेदभ्यु- पैम: 'यज्ञं व्याख्यास्यामः' इत्यत्रैव अवश्यापेक्षितस्य यज्ञविभागस्य व्याख्याशब्दार्थविवरणस्य च कृतत्वान्त्र पुनर्दर्शपूर्णमासव्याख्या- प्रतिशासूत्रे तदपेक्षा स्यादित्याशङ्का तत्र यज्ञविभागादिप्रदर्शनपरस्य धूर्तस्वामिनो दुस्समाधा समापतेदिति तेन तद्व्याख्यानमेव प्रतीमः । अहोबलसूरिरपि परिभाषाप्रश्नस्य कल्पनिबन्धोपक्रमतां समर्थयन्नपि, - भाष्यकारादिभिर व्याख्यातत्वं वदन् आदौ तस्याव्याख्यानं स्पष्टमाह | हौत्रस्य इष्टिप्रकरणान्ते चातुर्मास्यान्ते च धूर्तस्वामिना व्याख्यानात् तत्र च रामाण्डारेण वृत्ते. प्रणयनादने व्याख्यानवचन- मुपपन्नमपि | परिभाषाया एव भागविशेषे भाष्यकृदव्याख्याततां सूचयत्यप्यादिशब्देन । एककर्तृकसमग्रभागव्याख्यायास्सप्रतिपन्ना- यास्सच्चे हि तन्मूलकव्याख्याना तेन सहादिशब्देन निर्देशो नातीव शोभेत । यथाऽवसरं च परिभाषणीयांशनां समुचितलक्ष्यनिर्देशसंभवाच धूर्तस्वामी परिभाषाव्याख्यान उदास्तेत्यपि चिन्तयितुमुचितम् । न चेखूर्तस्वामी परिभाषाणां भाष्यकृत् कस्तद्वयाख्याकृदिति विचारणीयम्- यद्यपीत एव मुद्राप्य प्रकाशिते व्याख्ये इति जानतो नास्ति विचारावसर इति शङ्का स्यादपि ; तथाऽपीतः प्रकाशिते भाष्ये कपर्दिकर्तृकत्वस्य विचारासहतां पश्यतोऽस्ति विचारावकाशः । तथाहि आपस्तम्बगृह्ये अष्टमे पटले तात्पर्यदर्शनकृत् सुदर्शना- चार्य: " ब्राह्मणभोजनं होमः पिण्डदानं च त्रीण्यपि मासि श्राद्धे प्रधानानि अनन्याधेये भाष्यकारेण धूर्तस्वामिनोक्तत्वात् । 'वैश्व- देवे विश्वेदेवाः' इत्यत्र कपर्दिस्वामिनोक्तत्वाच " इति वदन् गृह्य- प्रश्नभाष्यकारः कपर्दिस्वामी इति स्पष्टमेवाह ।