पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथापि (५ प्र ७ पटले) " क्वचित् चतुर्होत्रर्थ प्रणीते त्यक्तेऽ- न्वाधानमिति पाठः इति ; XXXVII (६ - १) क्वचिन्मन्त्रेण बोधनं नित्यवत्, इति पाठः इति, (७ - २) 'विकारवद्भयाम्' इति पाठः इति, (१०-१) पितामहसंततिका इति वा पाठः इति पाठभेदान् ; (११ प्र.) ‘सूत्राणां व्युत्क्रमेण व्याख्यानमनास्थया लेखकप्रमा- दाद्वा' इति भाष्यशैलीपरिचयं च प्रकाशयन्, 'यत्त्वयं भाष्यकारः' इत्यादिना भाष्यकारं पृथक्नर्दिशश्च रामाण्डार: स्वीयां वृत्तिं तद्विवरणीयं च भाष्यं विविक्तं मन्यत इत्यवधेयम् । ६ वृत्तिकारपरिचयः अथ वृत्तिकारं परिचिचीषामः । तत्र अहोवलसूरेः सूत्रवृत्तौ तावत् अधिकारनिरूपण क्रम्य - अविदुषोऽपि साधोरधिकार इति प्रयोगवृत्तिकाराः । आत्म- ज्ञानवतोऽधिकार इति भाग्यकारादयः । नाद्वैतज्ञानवतोऽधिकार इत्यद्वैतवेदान्तिन ' इत्याह । अनेन च आत्मज्ञानं यज्ञाधिकारहेतुरिति भाष्यवृत्तिकारयो- राशय इति निवेदितं भवति । अय्मर्थो भाष्यवृत्तिकारयोर भिमत इत्यहोवलसूरिपक्षं तत्तद्भाष्यवृत्तिग्रन्थभागप्रदर्शनेन च विशद- याम " चतुर्थप्रने चतुर्थखण्डारम्भे– ' इदं शकेयं यदिदं करोमि आत्मा करोत्वात्मने ' इत्यादिमन्त्रजपस्सूत्रकृता विहितः । तत्र धूर्तस्वामिभाष्ये,–' आत्मा करोत्यात्मने इति विज्ञानं मन्त्रलिङ्गेन' इति विवृतम् । तत्र वृत्तौ, “आत्मने ब्रह्मणे आत्मा करोत्विति विज्ञानमपि कर्तव्यम् ; यत्करोषि यदवासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥