पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

266 श्रीरामाग्निचिद्वृत्तिसहितधूर्त स्वामिभाष्यभूपिते [खं ८, सू १ नेन प्रचरन्ति । अत्रैव भक्षयन्ति तुरायणे न भक्षयन्तीति कोचत् ॥ इति धूर्तस्वामिभाष्ये तृतीये प्रश्ने द्वितीय पटल ॥ 1 (सू) 1 आज्यलेपान् प्रक्षाल्य सस्रवे जुहूपभृता- वध्वर्युरादत्ते वेद होता स्फ्यमाज्यस्थालीमुद- कमण्डुलुं ' चाग्नीधः ॥ १ ॥ ३७ ॥ ५५१ ॥ 2 (वृ) नन्तर्य विधीयते । अत परिधिषु प्रहृतेष्विति विधाने सस्रावस्य परिधिप्रहारानङ्गत्वपक्षे हविश्शेषभक्षणोत्तरकालमेव हारियोजनम् । वाजि नप्रचारभक्षणे हविश्शेषभक्षणात्पूर्वमेवास्मिन् पक्षे । सस्रावान्त कृत्वेति विशेषविधानादिति चातुर्मास्येषु वक्ष्यति ॥ [पक्षान्तराशयविवरणम्] अत्रैव - केचित् इति - सुस्रावस्य परिधिप्रहाराङ्गत्वपक्ष एव ‘प्रकृते पूर्वोक्तत्वादपूर्वमन्ते स्यात्' इति (जै. सू ५-२-१७) न्यायेन हारियोजनात्प्रागेव हावेश्शेषभक्षण मेव प्राप्तमेवेति मत्वा अवधारणस्य प्रयोजनान्तरमुच्यते । तुरायणे हविरुच्छिष्टव्रतो भवतीति (आ. श्रौ २३ – १४–४ ) विधानात् यजमानस्यविजा हविश्शेषभक्षा- पनय' इति दर्शयितुमवधारणामिति । तथा च सोमे 'सोमान् हवि श्शे- षानिति सुत्येऽहनि भक्षयन्तीति' (आ. श्रौ. ११-१८-१०) विधा- नात् । अतोऽत्रैवविजो भक्षयन्ति नान्यत्र यजमानेन सहविज इति सूत्रार्थ । अत परिध्यनङ्गम् यदा न संसावः तदा भक्षण कृत्वा हारियोजनप्रचार । प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यादिति न्यायेन हविश्शेषभक्षणान्त एव वाजिनचर्या ॥ इति धूर्तस्वामिभाष्यवृत्तौ रामाग्निचित्कृतौ तृतीयप्रश्न द्वितीय पटल ॥ - सखुवजुहू - क. 2 चाम्नीध्रप्रथमा - क. 3 भक्षणं - प्रा क. घ. 4 नयनं इति - क.