पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

278 (भा) (सू) श्रीरामाग्निीचेद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १०, सू ७ [योक्त्रविमोचने विकल्पसमुच्चयपक्षौ] होता चेद्या विमुञ्चति न तदा पत्नी । कर्तृभेदाद्वा समुच्चय | तस्यास्सयोकेऽखलौ पूर्णपात्रमानयति ॥ ।। ७ ।। ६७ ।। ५८१ ॥ 1 [निनयनावृत्तिः] (भा) प्रतिपत्नि पूर्णपात्रनिनयनम् || [भाष्टास्थचेत्पदस्वारस्यविरणम् फलं च] (बू) होता चेद्यो विमुञ्चति न तदा पत्नीति- बह चहौत्र प्रयोगपक्षे। अस्मदीयहौत्रपक्षे तु प्रासनानन्तर वेदस्तरणमेव होतु । यो विमोस्तु पत्नीकर्तृक. पत्नीमन्त्रकाण्डे मन्त्रपाठात् । तथा विनियोगात् । अत्र होता चेद्योऋमिति पाक्षिकनिर्देशादस्मदीयस्य बहुचोक्तस्य च विकल्पो भाष्यकारेणानुज्ञात । तत्रायमभिप्राय, ऋग्वेदेन होतां करोती- त्युक्तत्वात् अस्मदीयहौत्रकाण्डेऽपि ब्राह्मणे; ययायोस्मिन् होतार- ममृथा इत्यस्माकमनुक्तस्य बहुचोक्तस्य प्राप्तिमङ्गीकृत्यानूच्य निन्दा- वचनाच्च बहुचोक्तानुज्ञानादस्माकमपि प्रकृतौ समभोपदेशात् उपदेशादि- तराणि च सूत्रकारेण तदनुज्ञानादुभयोर्विकल्पः । नास्मदीय एव | [समुञ्चयपक्षोपपादनम्] कर्तृभेदाद्वा समुच्चयम इति - यथा ब्रह्मवरणमध्वर्युयजभानयो- समुच्चीयते तद्वदस्मिन् पक्षे होता ग्रन्थि विस्रसयति पत्नी विमुश्यति ॥ [आवृत्युपपत्तिः] प्रतिपत्नि पूर्णपात्राननयनमिति -- अञ्जलौ पूर्णपात्रमा- नयति रेत एवास्यां प्रजां दधातीति पत्नीसंस्कारत्वात्पूर्णपात्रनिनयनस्य || 1 पूर्णपात्रमुदकम् । तत्तूष्णीमानयति । पत्नपनेकत्वेचावृत्ति पूर्ववत् (रु).