पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xliv परमात्मतत्वसुनिरूपणपरिमुदित विद्वद्वाजसाक्षिकं भट्टनाथविरुद- भूषिता महतीमर्हणामवाप्नुवन्निति तदितिहासप्रसिद्धं जागर्ति । त इमे भट्टनाथाः पेरियाळ्वार् इति विशिष्टाद्वैतिगुरुपरम्परा- परिपाल्यमानानुसन्धानसुगृहीतनामधेयाः प्रथन्ते । एतैरेव पुरुषधौरेयैः पुत्रीभावपरिगृहीता जनकेन यजनभूतला- दुत्थिता जानकीव निरन्तरवटपत्रशायिसमाराधनकुसुमप्रसवधम्य- पुष्पवाटीभूतलादुत्थिता श्रीदेव्यपरावतारभूता गोदादेव्यपराभि- धाना देवी आण्डाळ्' इति तदीयेनैव नाथविरुदेन भूषिता श्रीकृष्णदिव्यकल्याणगुणानुसन्धानसमाधिनिष्ठापरिभूषितदिव्या - शयालङ्कृतगाधाशतीप्रवर्तिका अखिल एव दक्षिणभारतभूतले अखिलेष्वेव विष्णुदेवालयेषु श्रीदेवीनिर्विशेष समाराध्यमाना जगन्ति रक्षति | - यांश्च भट्टनाथान् श्रीमन्निगमान्तगुरवः कल्पसूत्रव्याख्यातृत्वे- न व्यपदिशन्ति स्वीये रहस्यत्रयसारनाम्नि मणिप्रवाल निबन्धे- QHLIIT BOL QQUOQJLD BUILD FULL GUR QUIT IT Isq WIT IT &an GT BLOOGLD &0/16 GBairps SOLUB ८ GT rQILIT SLIIT TO LI5000 6ळजी ग बिगी IIT !palTI Mী# इति । भगवद्दासत्वस्य भागवतदासत्वान्तस्य विक्र यान्तपर्यवसानपरिपालनीयताम् 'भगवन्नामसंकीर्तननिष्ठाभगव- 1 S > दासा अस्मान् विक्रेतुमपि कल्पन्ते' इति कल्पसूत्रव्याख्यातारः श्रीभट्टनाथाचार्याः अन्वगृह्णन्' इति च तदर्थः । अत्र अङ्गाङ्गिनोश्शेपशेषिभावं स्वत्वत्यागात्मक- यागान्तर्गतस्वत्वस्वरूपं सोमक्रयणान्तर्गतक्रयविक्रयस्वरूपं विनि- योगप्रकारादिकं च समीचीनन्यायैर्निर्णीय कल्पसूत्रं व्याख्यातवन्तो भट्टनाथा इति यावत्' इति तयाख्याने सारास्वादिनीकारा आाहुः । त इमे भट्टनाथबिरुदभूषिता विष्णुचित्ताचार्याः कल्यादि