पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xlv चत्वारिंशदब्देभ्य उत्तरं स्वावतारेण धरातलं पवित्रयामासुरिति गुरुपरम्परयाऽनुसन्धेयात्पद्यादवगम्यते, तत्वाब्दापगमे कलौ युगपरे संवत्सरे क्रोधने चण्डांशी मिथुनं गतेऽह्नि नवमे पक्षे बलक्षेऽपि च । स्वात्यां भास्करवासरे शुभतिथावेकादशीनामनि श्रीमानाविरभूद चिन्त्यमहिमा श्रीविष्णुचित्तोऽनघः ॥ ( जयन्तीमाला) इति । एवंविधबिरुदभूषितमहाकुलजनिनिमित्ता विरुदसंपत्तिः धूर्त- स्वामिभाष्यवृत्तिकृतो रामाग्निचितः कल्पसूत्रव्याख्याप्रवीणबुधवेद- विद्वज्जनपरम्परापरिप्राप्ता संप्रतिपन्ननिबन्धाता च जागतीति । --- रामाण्डारः कुमारिलादर्वाचीनः वृत्तिकारोऽयं रामाण्डारः पशुबन्धप्रश्नारम्भे, 'तदेतत् अर्थवादाधिकरणे 'पूर्णाहुत्या सर्वान् कामान वाप्नोति ' इत्यत्र वार्तिककारेणोक्तम्, कर्मणामल्पमहतां फलानां च स्वगोचरे । " विभाग: स्थानसामान्याविशेषोऽपि चोदिते ॥ इति कुमारिलवार्तिकमुदाहरन् ततोऽर्वाचीन इत्यवधारयामः । भट्टनाथवंश्यत्वाञ्चास्य तत्कुलधनभूतं यज्ञशास्त्रप्रवर्तकत्व परम्पराप्राप्तं निश्चिनुमः । धूर्तस्वामी रामाण्डारश्च न समकालौ यद्यपि आपस्तम्ब नमस्कृत्य धूर्तस्वामिप्रसादतः । तद्भाष्यवृत्तिः क्रियते यथाशक्ति निरूपिता ॥ इति स्वग्रन्थारम्भे वृत्तिकारो रामाण्डारो धूर्तस्वामिनः प्रसादं स्वग्रन्थनिर्माण हेतुं कीर्तयन् तस्यैव गुरुभूतस्योपसदनवरिवस्या- दिना तद्नुग्रहला भमिवाचक्षाणस्तत्समकालिकमात्मानं प्रकाशय- तीव प्रतीयते ।