पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १६, सू १४.] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चमं पटलः (भा) न च तासां सस्कारः जात्याभिघानवत् ॥ [शाखापवित्रमन्त्रं तन्त्रम्] इमौ पर्णमिति तत्रेणैकत्वात् ॥ [वत्सापाकरणादौ विशेष ] पृथक्पृथगुपलक्षिताना वत्सानामपाकरणम् ॥ [गोसंस्कारे तन्त्रम्] तथा गवा सायदोहार्थानाम् | संस्कारस्तन्त्रेण तु भवति ॥ (वृ) शङ्कापरिहारार्थं विशेष उच्यते पत्नी सनोति । प्रैषकाले पत्नयो न संनिहिता' सनहनप्रभृतिसंनिधानात् । तस्मादेकवचनमन्त्रेणास्याभिधान- मिति विशेषज्ञानाशक्तेरसमवेताभिधानमिति ॥ 323 न च तासां संस्कारो जात्याभिधानवत् – न च तासां संस्कारार्थ प्रैष । किंत्वामी प्रसंस्कारार्थः तस्य प्रैषत्वात् । अत एव प्रैषकाले पत्नीनामसन्निहितत्वात् जात्यभिधानद्वारेणापि पाशमत्रवत् प्रकृत्यर्थान्वयसभवमात्रेणापि न तासा संस्कार । जात्यभिधानवदिति - यथा वचनार्थाभावेऽपि जात्यभिधानेन सस्कार तथेह न सभवतीति || [कृतचिह्नवत्सापाकरणम् ] पृथक्पृ-रणम् – दोहार्थमुपलाक्षतानाम् । तथा – नाम् — तथा गवामपि पृथक् लक्षणानि कृत्वा साय- दोहार्थानां प्रातर्वत्सापाकरणकाले षडवरार्ध्या वत्सा अपाक्रियन्ते । उभयत्र वत्सापाकरणकाले प्रतिकुम्भि पृथक् कृतचिह्नानां वत्सानां मातृभ्योऽपाकरणमिति यावत् ॥ [गोसंस्कारसिद्धिः] संस्कारस्तन्त्रेण तु भवतीति – गोप्रस्थानादिसंस्कारः । 01