पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xlvi तथापि, - (५५-८१) सूत्रे 'अधिदेवना दिनि सादहोमान्तं राजन्यस्यैव ' इति भाष्ये ; अस्यार्थो मृग्यः' इति । 2 6 एवं १७७तमे सूत्रे; अस्य भाष्यस्य शास्त्रान्तराविरोधेन विषयवर्णना कर्तव्या' इति । -- एवं दशमप्रश्ने, - 'पात्र संगमनानन्तरं वक्तव्यमपि भाष्य- कारेणानास्थयेदमुक्तम् लेखकप्रमादाद्वा' इति एवंविधै- र्भाष्यकृत्पारोक्ष्यगमकैर्वचोभिः न भाष्यवृत्तिकारौ समकालाविति निर्णीयते । एवं च; आश्वलायनसूत्रस्य भाष्यं भगवता कृतम् । देवस्वामिसमाख्येन विस्तीर्ण सदनाकुलम् ॥ तत्प्रसादान्मयेदानीं क्रियते वृत्तिरीदृशी । नारायणेन गार्ग्यण नरसिहस्य सूनुना ॥ इत्यत्रेव रामाण्डारवृत्तावपि भाष्यग्रन्थाध्ययनजनितधी वैशद्य- लाभमूलकृतज्ञतानिवेदनमात्रं तत्प्रसादत इत्युक्तिरित्यध्यवस्यामः । श्रौतसूत्रवृत्तिकृद्रुद्रदत्तपरिचयः आपस्तम्बीयश्रौतसूत्राणां साक्षावृत्तिकारः रुद्रदत्तोऽपि । रुद्रदत्तभाष्यमित्यपि तस्या वृत्तेर्व्यपदेशः त्रिकाण्डमण्डनटीकायां दृश्यते । यथा त्रिकाण्डमण्डने;– (१५५ व्या.) ' बलवद्भिः परैर्निगृह्य- माणत्वं रुध्यमानत्वम् तदेवारोधनम्' इति रुद्रदत्तभाष्ये, इति । म अयं च ग्रन्थः रुद्रदत्तवृत्तौ ५ प्र म पटले ३य सूत्रे हृश्यते । अत्र च रामाण्डारवृत्तेरपि भाष्यमित्येव व्यपदेशो दृश्यते । अयं च रुद्रदतः धूर्तस्वामिनो ऽर्वाचीनः; तथाहि ग्रन्थार;