पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

326 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १६, सू १६. (भा) वाजित्वम् ; यथा पत्नीषु पत्नीत्वम् । कथं स्त्रीत्ववचन सामान्ये भवतीति चेत् ; यथा पुस्त्ववचनम् । अलिङ्गमसख्यं च सामान्यम् । तत्र यथा पुशब्दः एवं स्त्रीशब्दोऽपि । मण्डूकेन विकर्षति मण्डूकि ताभिरागहीति || [सामान्याभिधानविवक्षाहेतुः] प्रकरणे च समान कार्याणां मा भूत्सस्कारहानिरिति सामान्याभि- धानमाश्रियत इति ॥ [संख्याविशेषाविवक्षा] एष एव न्यायो वचनविरोधेऽपि । इद देवानामित्यामेये केवले अवदानमत्रे च || - (वृ) कथं स्त्रीत्व – चेत् – कथ स्त्रीत्व सामान्यवचने भवतीतिचेत्, सामान्येऽभिधेये कथ वाजिनीमिति स्त्रीत्वम् ? नपुसकत्वमेव स्यात् परिहरति 2 - यथा पुंस्त्ववचनमिति ॥ दृष्टान्तं विवृणोति- अलिङ्ग - रागहीति - - मण्डूकेनेति पुल्लिङ्गविनियोगे मण्डूकि ताभिरागहीति स्त्रीलिङ्गान्तदर्शनात् एवंविधाना सामान्यमात्रवचनतया लिङ्गसङ्ख्यादीनामविवक्षा | [भाष्योक्तविवक्षाहेतुविचरणम् ] - प्रकरणे च समान - माश्रियते इति - एकप्रकरणवर्तिना समा- नकार्याणां तुल्यव त्सस्कार्यत्वात् सामान्याभिषानमाश्रियते ॥ सङ्ख्याविरोघे यथा- इदं देवानामित्याग्नेये केवले – निरुप्ता भिमर्शन बहुवचना- - न्तमेव ।। अवदानमन्त्रे च – अवदानानि ते प्रत्यवदास्यामीति अवदान - जात्यभिधानदर्शनात् । बहुवचनान्त मेवावदानद्वित्वेऽपि प्रयुज्यते ॥ 1 संस्कार कार्यत्वात् ख ग. 2 न्त एवाव (मु. रा )