पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १६, सू १७ [प्रयोगेऽस्मिन् वर्ज्यावर्ज्यविषये पक्षान्तरम्] (भा) केचित् साधारणानामुत्कर्ष मन्यन्ते । द्वे बर्हिषी । न प्रथमे प्रस्तर' । द्वाविध्मौ । पञ्चदश दारूणि परिषयश्च प्रथम इध्मः | न सभरणमन्त्रौ प्रथमे । 1 बन्धनमन्त्र | यज्ञाभिधानान्नोलपराजि स्तरणम् । 'द्रव्यसस्कारत्वात् स्फ्याग्निहोत्रहवण्यौदुम्बरवेदाना प्रयोगः ॥ 2 330 [वर्ज्यावयर्निर्णयपरतत्पक्षीयन्यायः] (वृ) केचित् मन्यन्ते – उत्कर्षदित्यपरमिति वक्षमाणन्यायात् || [अत्रपक्षे भाष्यदर्शितवर्जनपरिग्रहोपयुक्तहेतुविवरणादि] द्वे बर्हिषि – रात्रावपि हविरासादनार्थम् । न प्रथमे प्रस्तर इति — अयं प्रस्तर उभयस्य धर्ता इति प्रयाजानूयाजघारणार्थत्वात्प्रस्तरस्य प्रयाजानूयाजादीनामुत्कर्षे रात्रि- प्रयोगे न प्रस्तरः || द्वाविध्मौ – उभयत्र हविः प्रक्षेप इध्माङ्गारेषु कर्तव्योऽदृष्टार्थ- त्वायेति ॥ निवृत्तिः ॥ पञ्चदश इध्म इति – आघारानूयाजानामभावात् समिधां न संभरणमन्त्री प्रथमे – यत्कृष्णो रूप त्रीन् परिधीन् इत्यनयोः सख्याविरोधान्निवृत्ति ॥ बन्धनमन्त्रः -- प्रयोक्तव्य एव । यज्ञाभि – रणम् – यज्ञस्य संततिरसीति यज्ञाभिधानात् यज्ञस्य साधारणत्वादुत्कर्षः ॥ -- द्रव्यसं - प्रयोगः - स्फ्यस्य वेद्यमिसस्कारत्वात्प्रयोग । अग्नि- होत्रहवण्याः पात्रप्रोक्षणार्थत्वात् औदुम्बरपात्रस्य होमार्थत्वात् वेदस्य चोपवाज 'नाद्यर्थत्वात् || 1 संभरणमन्त्र (मु रा). 2 द्रव्यस्य सं (मु रा ) 3 र्थ बर्हि -क 4 वाजनार्थ -