पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xlvii अस्यापस्तम्बसूत्रस्य दुर्ज्ञानाशानसंशयान् । सूत्रदीपिकया वृत्त्या रुद्रदत्तः परास्यति ॥ प्रतिजानन् इति स्वप्राक्तनैत द्विवरणमूलकानर्थपरिजिहीर्षयेव स्वप्रवृत्तिमावेदयति । प्रायोऽयं वृत्तिकारः धूर्तस्वाम्युक्ति मतान्तर- तयोपन्यस्य खण्डयति । यथा ;- 'संक्षेपतो यज्ञो व्याख्यातः परि- भाषायाम्, विस्तरेण दर्शपूर्णमासावनन्तरं व्याख्यायेते' इति धूर्तस्वामिभाष्यम् | 'न पुनरिहानन्तर्यार्थ: ' वृत्तस्य कस्य चिदनुपलम्भात् इति । एवं दर्शशब्द विवरणे, - ( दृश्यते यस्मिन् क्षणे सूर्येण संगतश्चन्द्रमाः सिद्धैः स क्षणो दर्श: ' इति भाष्यम् । अत्र रुद्रदत्तः ;- 66 'न दृश्यतेऽस्मिञ्चन्द्रमा इति विपरीतलक्षणया दर्श इत्यमा- वास्योच्यते न त्वियमन्वर्थसंज्ञेति । चन्द्रदर्शनस्य सर्वतिथि- साधारण्यात् । न च सूर्येण सङ्गतो दृश्यते इति विशेष्टव्यः, सूर्यसङ्गते- रमावास्याशब्दप्रवृत्तिहेतोर्दर्शनात् ; अमा सह वसतोऽस्यां चन्द्रा- कौं, इति वाच्यम्, अतितेजस्विसूर्यमण्डलान्तर्विलीनः क्षीण - कलश्चन्द्रमाः सिद्धैरेव दृश्यते नास्मद्विधैः । तत्रापि सिद्धदर्शनस्या- विशेषकत्वादस्मदर्शनपरिसङ्ख्यापर एव शब्दोऽभ्युपगन्तव्य इति स एवार्थश्छद्मनोक्तस्स्यात् । न चासौ प्राञ्जलः विवक्षिततिरोधनात् । सूत्रकृतैव विपरीतलक्षणया विवरणाञ्च 'यदहर्न दृश्यते तद्हर- मावास्या ' इति । तस्माद्यथोक्त एव शब्दार्थ शोभते " इति । एवमुत्तरत्रापि गतश्रीशब्दार्थादौ भाष्यकृदुक्तिखण्डनपर एव रुद्रदत्त इति । एवं बहुत्र तदुक्तानेव पदार्थान् सूत्रार्थाश्चानुवदन्नपि दृश्यत इति तत्तत्परिचयावसेयं भवति । कल्पसूत्राणां परिभाषोपक्रमत्वानभ्युपगमपक्षोऽस्य पूर्वमुप- पादितः ।