पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

336 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १७, सू ६ (भा) प्रकरणात्तु दघिधर्माणा प्राप्ति । अनुपकारकाणां निवृत्तिः ॥ [अत्रैन्द्रयाग विशेषः] इदानीमुपांशुयाजविकारस्योपकुर्वन्ति । द्वार जातमिति । उपां- श्विज्याहुतानुमन्त्रणादीना द्रव्यद्वारत्वा दुपांशुयाजधर्मा एव क्रियन्ते ॥ [प्राप्तिहेतुः] (वृ) प्रकरणात्तु दधिधर्माणां दधिधर्माणामुपदेशात् अविशेषेण सर्वकरणार्थत्व प्राप्तम् ।। प्राप्तिः - दर्शपूर्णमासप्रकरणे - [निवृत्युपपत्तिः] अनुपकारकाणां निवृत्तिः -- अस्यार्थः अङ्गानामकिञ्चित्क- राणामङ्गत्वानुपपत्ते प्रधानापूर्वद्वारेणोपकार जनयित्त्वे वाङ्गत्वनिर्वाहात् दधिधर्माणामुपाशु याजकार्याभावात् तेषां तन्त्रनिवृत्तिः ॥ 1 [अन्न्द्रयागे दधिधर्माणामुपयोगोपपत्तिः] इदानीमुपांशुयाजविकारस्योपक्कुर्वन्ति - - इदानीमुपांशुयाजा- त्मकत्वादैन्द्रयागस्य च दघिसाध्यत्वात् दधिधर्मा उपकुर्वन्ति ॥ [द्वारं जातमितिभाष्यभावः] द्वारं जातमिति – अत्रायमभिप्रायः, - साकप्रस्थायीयदाक्षा- यणयज्ञादीना 2 दर्शपूर्णमास'गुणमात्रविकारत्वात् नात्यन्तविकृतत्व- मिति सूत्रभाष्यकारयोरमिप्रायः । तूष्णीं कस मृन्मयं चेति वचनात् । इतरथा कसमृन्मययोरूहमेवोपदिशेत् । तथा अग्निष्टोमस्य गुणविकारा इत्यत्र भाष्यकारेण * स्पष्टमुक्तम् । एषाममिचित्यादयो वैकृतधर्मा न भवन्तीति । अत खण्डसस्थादिवत्प्रयोगविकारमात्रत्वमेव | तस्मा- दैन्द्र दधीति विध्युत्पत्तिधर्माः कर्तव्या । आतञ्चनार्थं यवागूहोमश्च । एतच्च प्रायश्चित्तप्रकरणे भाष्यकारेण स्पष्टमुक्तम् । वायव्या ' यवाग्वां 1 याजे कार्यान् (मुरा) 2 सर्वपूर्णमास - क 6 4 स्वयमुक्तम्-घ 5 र्मान्न भवन्तीति ? - ख ग 8 व्या ग्वा (मुरा).

  • मासमात्रगुण - ख ग.