पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने षष्ठ पटल सवित्रा बृहस्पतेः सदने सीदामि तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्या इत्युपविशति आहवनीयमभ्यावृत्याऽऽस्ते ॥ ४ ॥ ४ ॥ ६४९ ॥ [ आसने नियमः कालः पक्षान्तरं च] (भा) उपविशत्याहवनीयाभिमुख । आस्ते च तत्रैवासमाप्ते । केचित् प्राङ्मुख उपविश्य पश्चात्परिवर्तत इत्याहुः ॥ (सू) कर्मणि कर्मणि वाचं यच्छति ||५||५|| ६५० ।। [वाग्यमने विषयविशेष. ] खं १८, सृ ६ ] ऋत्विग्यजमानकर्मणि ॥ 2 ' मन्त्रवत्सु वा कर्मसु याथाकामी तूष्णकेषु ॥ ६॥६॥६५१ ॥ [ अमन्त्रवत्स्वपि क्वचिद्वाग्यमनम्] (मा) अमन्नवत्यपि वेद्यन्तपरिस्तरणादौ || (भा) (सू) 343 [तूष्णीकानां मानसत्वम् तद्धेतुश्च] तूष्णिकेष्वर्थकृत्येष्वपि पात्रप्रक्षालनादिकर्मसु मानसानि वा तूष्णीकानि । स प्रजापतिस्तूष्णीमाघारमाघारयदिति दर्शनात् । यथाs- स्थेच्छा तथा प्रयुङ्क्त इति याथाकामी || - (बृ) उपविशत्याहवनीयाभिसुख इति – तत्पृथिव्या इत्युपविशत्या- हवनीयमभ्यावृत्येत्येक सूत्रम् ॥ आस्ते च तत्रैवासमाप्तेरिरात – अर्थान्तरविधि। [केचिदिति पक्षे उपपत्ति. ] केचित्प्रा र्तत इत्याहुः – तत्पृथिव्या इत्युपविशतीति विधा- याहवनीयमभ्यावृत्यास्त इति पुनर्विधानात् ॥ [तूष्णीकानां प्राजापत्यत्वमानसत्वयोरुपपत्ति विशेषश्च] सप्रजापति - दर्शनात् – यतूष्णीं तत्प्राजापत्यं इति तूष्णी- 1 उत्तरतो वेदेस्तिष्ठन्नेत जपमुक्ता ततो दक्षिणातिक्रम्योपविशति उपविशन्नावृत्याहवनयिाभिमुख आस्ते (रु) 2 अथवा मन्त्रवत्स्वेव कर्मसु वाग्यमननियम । तूष्णीकेष्वनियम इत्यर्थ (रु).