पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xlvill एवम् ; एते वा अध्वर्गृहा य एवं वेद गृहवान् भवतीति विज्ञायते' इति (२२ शं ) सूत्रम् | तत्र, –'यो यजमानो गृहान् वेद कर्माणि तस्यापि गृहा भवन्तीति फलसंस्तुतिः' इति भाष्यम् । अत्र रुद्रदत्तः, – वेदनस्य परार्थत्वात् फलवचनं प्ररोचनार्थम्, ततश्च यजमानस्यैवेदमेवंविदुषः फलमिति न शङ्कनीयम् इति । " अत्र च इति फलस्तुतिः इति फलसंस्तुतिः इति वा भाष्य- पाठेऽपि फलप्रशंसाप्रतिपत्त्या न भाप्यखण्डनावकाशस्तावानस्ति; तथाऽपि रामाण्डारवृत्तौ - फलसंस्तुतिः फलविधिः इति व्याख्या- नात् यजमानगामिफलविधिपरत्वं भाष्यवृत्तिकारौ तस्याश्थुतेर्मन्चाते इत्याशयेन खण्डनप्रवृत्ती रुद्रदत्तस्य । - अनया च वचोभगधा भाष्यकारादर्तस्वामिन इव वृत्तिकारा- द्रामाण्डारादपि रुद्रदत्तोऽर्वाचीन इत्यवगम्यते । किञ्च, -१ प्र ६ष्ठे सूत्रे, ' इति सङ्कल्पः' इति भाष्यम् । रामाण्डारः, - यद्यपि ( अत्र - मानसव्यापाररूपस्सङ्कल्पः : तथाऽपि तद्वाचकशब्दोच्चारणपर्यन्त एव । 'यो यक्ष्य इत्युक्ता न यजते त्रैधातवीयेन यजेत' इति उच्चारणपर्यन्तनिर्देशात्' इति । अत्र रुद्रदत्तः ; “सङ्कल्पश्च मनसोऽसाधारणव्यापारत्वान्मानसः। यथाऽऽहुस्सांख्याः ‘मनस्सङ्कल्पं' इति । वाचिकोऽपीत्यपरं 'यो यक्ष्य इत्युक्ता न यजते इति लिङ्गात्" इति रामाण्डारग्रन्थमनुवदति । एवं, – (४ - १६-८) 'प्रतिपुत्रमावर्तते' इति रामाण्डार. | अत्र रुद्रदत्तः ; 'बहुपुत्रत्वे तु स्वस्थानवृद्धघा नाम्नां ग्रहणम् । न त्वभ्यासवृत्त्या ' इति तदुक्ति खण्डयति । पञ्चदशैव च प्रश्ना रुद्रदत्तेन व्याख्याताः । परिभाषाऽपि तेन व्याख्यातेति संभावयितुमस्त्यवकाशः | केशवस्वामिमतानुयायी च रुद्रदत्त इति त्रिकाण्डमण्डने अधिकारिनिरूपणग्रन्थावगम्यत इत्यलं प्रासङ्गिकेन ।