पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

344 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १९, सू. १. यदि प्रमत्तो व्याहरेत् वैष्णवीमृचं व्याहृतीच जपित्वा वाचं यच्छेत् ।। ७ ।। ७ ।। ६५२ ।। प्रमत्तः - प्रमादेन व्याहरेत् उल्लापयेत् ॥ ब्रह्मन्नपः प्रणेष्यामत्युिच्यमाने ||८||८||६५३॥ अष्टादशी खण्डिका (भा) (सू) 1 [शानजुपपत्तिः] उच्यमान इति वर्तमानसामीप्ये || प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च घेह्यों प्रणयेति | प्रसौति ॥१॥९॥६५४॥ [प्रणवाद्युच्चैस्त्वकालः] 3 (भा) नासमाते प्रैषे प्रणवाद्युच्चैः । यज्ञेषु चैतदादय प्रसवा इति वचनात् । ( वृ) कस्य प्राजापत्यत्वदर्शनात् । तस्मान्मनसा प्रजापतये जुह्वतीति प्राजापत्यस्य मानसत्वावगमात् मानसानां तूष्णीकत्वात् । अस्मिन् पक्षे मन्त्ररहितेष्वप्यमानसेषु नित्य वाग्यमनम् || [वर्तमानसामीप्यार्थकत्वे फलम् ] उच्यमाने इति वर्तमान सामीप्ये – उक्ते इत्यथः ।। [भाष्यदर्शितकालग्रहणौचित्यम् उच्चैस्त्वादिव्यवस्था च] नासमाप्ते प्रेषे——–समाप्तायां प्रार्थनाया अनुज्ञान युक्तम् । प्रणवाद्युचैः– याजुर्वेदिकत्वात् प्रणवात्पूर्व उपांशु । पर- प्रत्यायनार्थत्वात् प्रणवादिः प्रसव उच्चै । ओमिति ब्रह्मा प्रसौती. त्युक्तेऽपि न केवल प्रणवमात्र प्रसव | ओमित्युक्थ्यानिशीतिवत् प्रसवावयवत्वात्प्रणवस्य || यज्ञेषु चै- (सरणात्) वचनात् – प्रसवोऽनुज्ञानम् ॥ 1 प्रमादप्रायश्चित्तमेतत् (रु) 2 न • वर्तमानकालो विवक्षित आमन्त्रणमध्येऽ- नुज्ञानुपपात्ते (रु) 3 अनुजानाति । उपाशुजपमुक्ता उच्चै प्रसव । स च प्रणवादि (रु) 4 स्मरणात्-I क. स्मरणाञ्च - II. ख. ग. घ.