पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १९, सू ५ ] (सू) आपस्तम्बश्रौतसूत्रे तृतीयप्रश्रे षष्ठ पटल सर्वेष्वामन्त्रणेष्वेवं प्रसव स्तेन कर्मणा यस्मिन्ना- मन्त्रयते ॥ २ ॥ १० ॥ ६५५ ।। (सू) (भा) यस्मिन् कर्मण्यामन्त्रयतेऽध्वर्यु प्रणेष्यामि प्रोक्षिष्यामि परिग्रही- ष्यामीत्येतेषु प्रतिवचनं प्रणय प्रोक्ष परिगृहणानुब्रह्माश्रावय । प्रणवा - दीन्येतानि सर्वाणि ॥ (सू) ( प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षेत् 'बृह- स्पते परिगृहाण वेदिं स्वगावो देवास्सदनानि सन्तु । तस्यां बार्हः प्रथता सावन्तरहि स्रा नः पृथिवी देव्यस्त्वित्युत्तरस्मिन् परिग्राहे । प्रजा- पतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्विति ' प्रवरे ।। ३ ।। ११ ।। ६५६ ॥ देवता वर्धयत्वमिति सर्वत्रानुषजति ॥ ४ ॥ ॥१२॥ ६५७ ॥ 4 मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीय- मानं ' प्रेक्षते ॥ ५॥ १३ ॥ ६५८ ॥ 345 [प्रसवप्रतिवचनयोः प्रणवादित्वे मानम् ] प्रणवा - सर्वाणि – ओमिति ब्रह्मा प्रसौतीत्युक्तत्वात् ॥ 1 स्तन तेन- क ख यत्र यत्र कर्माणि येनाध्वर्युरामन्त्रयते ब्रह्मन् प्रोक्षिष्यामीत्यादिभिर्निगदै तत्रतत्रा मन्त्रितेनैव तेन तेनाभिमन्त्रणविषयेण प्रेक्षणा- दिना कर्मणा विशिष्ट प्रसव कार्य 2 प्रोक्षे इति रुद्रदत्तवृत्तौ मुद्रिताया पाठ 3ण - ख 4 एतेषु कर्मसु आमन्त्रित एतान् मन्त्रान् जपित्वा प्रसौति 'सामिधनीर नुवक्ष्यन्निति होतारमितिशेष । स यत्र ब्रूयात् सामधेनीर नुवक्ष्यामीति तदा प्रजापतेऽनुब्रूहीति प्रसोति (रु) 5 प्रेक्षणे सकृदेव मन्त्र हविर्गणेऽप्यकरण- त्वात् अव्यवायाञ्च | यथा पशुगणे मनोता । ( रु )