पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १९, सू ७ [प्राशित्रप्रेक्षणमन्त्रे तन्त्रता तद्धेतुपक्षान्तराणि] (भा) अवदयिमानस्य प्रेक्षण प्राशित्रस्य । बहुष्वपि सकूदेव 1 मन्त्रः कालभेदात् प्राजापत्येषु मनोतावदकरणत्वात् । केचिदावृत्तिर्विशेष- वचनात् ॥ 346 (सू) ऋतस्य पथा पर्येहीति 2 परिहियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याईियमाणम् ॥६॥ १४॥ ॥ ६५९ ॥ (भा) (सू) परिद्दियमाणमयेणाहवनीयम् । आह्वियमाणमात्मसमीपम् || 3 सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वाऽदब्धेन त्वा चक्षुषाऽवेक्षे इत्यवेक्ष्य सावित्रेणाकुष्ठे नोपमध्यमया चाऽङ्गु- ल्याऽऽदायाऽग्नेस्त्वाऽऽस्येन प्राश्नामि ब्राह्मणस्यो- [प्राशित्रप्रेक्षणे मन्त्रसकृत्त्वे सदृष्टान्तोपपत्तिः] अवदीयमानस्य-दकरणत्वादिति – यथा प्राजापत्यादिपशु- गणेषु अभ्यावर्तते मनोता तत्र वेति क्रियमाणानुवादित्वात्कालभेदा- भावातन्त्रत्वमुक्त तद्वदम्यापि क्रियमाणानुवादित्वादकालभेदातन्त्रता ॥ [प्राशित्रप्रेक्षणमन्त्रावृत्तिपक्षाशयः] केचिदावृत्तिः विशेषवचनात् प्रतिद्रव्यमवदानकालभेदा- तदानीमेव वक्तव्यमिति विशेषवचनात् || 1 बहुदेवतेष्वपि -ग. 2 अग्रेणाहवनीयमाहियमाण आसनं ह्रियमाण प्रतीक्षत इति शेष (रु) सावित्र प्रतिगृह्णामीत्यन्त प्रतिग्रहे, तथैव ब्राह्मणे पाठात् । आदाने तु आदद इत्यन्त । तथा दर्शितत्वात् (रु) 4 उपमध्यमा अनामिका