पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्रे षष्ठ पटल 351 1 (भा) केचिदाहु. - इष्टिपशुबन्धानां तु यदधिकमपेक्षित तत्तत्रैव विहितमिति । ब्रह्मत्व प्रकरण इत्युपदेश || इति श्रीमदापस्तम्बश्रौतसूत्रधूर्तस्वामिभाष्ये तृतीयप्रश्ने षष्ट पटल ॥ इति तृतीय प्रश्न ख २०, सू ११.] इडामेके, अभिषार्येडा, बाग्यता, दक्षिण सद्भय, औपभृतम्, अक्तम्, न्यश्चम्, आज्यलेपान्, देवाना, फलकिरणहोमम्, यथेतम्, आज्ञातम्, अयाट्, यद्यभिचरेत् सस्थाप्य, स इन्द्राय, यावत्यः, ब्रह्मिष्ठो ब्रह्मा, प्रणय, या विंशतिः ॥ इडामेक औपभृतमाज्यलेपान् यथेत संस्थाप्य ब्रह्मिष्ठो ब्रह्मा षट् ॥ [पक्षान्तरस्याशयः] - (वृ) केचिदाहु - विहितमिति-अस्यार्थ – इष्टिपशुबन्धाना दर्श- पूर्णमासप्रकृतित्वादेव सिद्धे एव विहितमिष्टिपशुबन्धानां ब्रह्मत्व- मित्यधिकं वचनं मत्वाऽतिदेशपरता सूत्रस्य 8 व्यावर्त्याधिकोक्त- 2 समुच्चयस्सूत्रार्थ इति ॥ [उपदेशपक्षाशय.] ब्रह्मत्वं प्रकरण इत्युपदेश इति – ब्रह्मिष्ठो ब्रह्मेत्येतावति वक्तव्ये ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोरिति वचनान दर्शपूर्णमासप्रकरणे ब्रह्मपटलस्याम्नानम् हौत्रप्रवरादिवत्परिभाषायाम् । अतस्सर्वसाधारण्य - प्राप्ताविष्टिपशुबन्धानां विहितामित्युच्यत इत्युपदेशः ॥ इति श्रीकौशिकेन रामाग्निचिता कृताया धूर्तस्वामिभाष्यवृत्तौ तृतीयप्रश्ने षष्ठ पटल समाप्तस्तृतीय प्रश्न . 1 अय ग्रन्थ ग. - पुस्तके न दृश्यते 2 वचन त्वादेश नरसूत्रव्याव- त्त्याऽधिकोक्तसमुच्चयार्थमिति ( मु रा ) 3 व्याकृतावधिकोक्ते समुच्चयसूत्रार्थ इति- व्यावर्त्याधिकोक्ते समुच्चयसूत्रार्थ इति - ख. ग.