पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं १, सू ४. [जपोपस्थानानुमन्त्राणानां व्यवस्थापकम्] १ (भा) यत्र सप्तम्या निर्देशस्तत्र जपः यथा होतृप्रवरेऽध्वर्युप्रवरे च प्रक्रियमाण इति । यत्र 1तु द्वितीया तत्रोपस्थानमनुमन्त्रण वा । पुनर्वचन नियमार्थम् || (सू) (भा) 356 2 ' पर्वणि च केशश्मश्रु वापयते ||४||४||६७५|| [वपनविधेर्नियामकता तत्फलं च शब्दार्थच] अर्थप्राप्तत्वाद्वपनस्य यदि विद्यतेऽन्यस्मिन् काले नियम्यते । अत [भाष्यदर्शितनियमोदाहरणम् ] - (ड) यत्र तु - णं - वा – नियमार्थम् -- यथाऽऽग्निपावमानीभ्यां गाईपत्यमुपतिष्ठत इति तत्रोपस्थानमेव । अनुमन्त्रणमिति नियमार्थः पुनरुपदेशः । [कालमात्रनियमविधित्वं यदिशब्दभावश्च] अर्थप्राप्त नियम्यते – पर्वणि च केशश्मश्रु बापयते इत्यर्थतः प्रवृत्तस्य वपनस्य कालविधिपरत्वाद्वचनस्य अर्थान्तराभावादिच्छाप्राप्तस्य वपनस्य कालमात्र नियमविधिः । उत्तरत्राऽप्यल्पश इति वचनात् यदि वर्षिष्ठाः केशा विद्यन्ते इच्छा च विद्यते ततोऽस्मिन् काले नियमः । नैमित्तिक भेदेन छेदनभेदनादिना प्रयुक्तानां होमयागादीनां तत्तन्निमित्त- युक्तकर्माङ्गत्ववत् इच्छायां केशभूयस्त्वे च क्रियमाणस्य कादा- 1 द्वितीयया-क ख. ग 2 ऐच्छिकत्वाद्वपनस्य पर्वणि पाक्षिकं सत् नियम्यते वापयत एव पर्वणीति । तेनापर्वष्यनियम । तच्च पितृयज्ञवदनङ्गं स्वकालवि धानात् तेन अकरणेऽपि दर्शपूर्णमासयो कार्यं त्रिंशतं वर्षाणि वा जीर्णो वा विरमेदित्यादिकल्पेषु । कर्माङ्ग वा वपनम्, मृता वा एषेत्यादिलिङ्गात् । तदाऽपि पर्व- ग्रहणात् पथिकृन्मुखाया प्रकृतौ विकृतिषु चापर्वकालासु नेष्यते यथा नैमित्तिकष्टिषु । केशश्मश्रुप्रहणात् लोमवपनमैच्छिक बेदितव्यम् (रु) 3 सोमयागादीनां (मु. रा )