पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १, सू ५ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथमः पटलः 357 (भा) इष्टिबहुत्वे पुनः पुनर्न क्रियते | चशब्देनान्यत्रास्य प्रतिषेषोऽनु- मीयते ॥ (सू) अप्यल्पशो लोमानि वापयत इति वाजसने- यकम् ॥ ५ ॥५॥ ६७६ ।। (भा) अप्यल्पश. - अल्पान्यपि लोमानि असमर्थान्यपि श्मश्रूणि ॥ (वृ) चित्काङ्गता । इच्छायां सत्या नैमित्तिकत्वादवश्य कर्तव्यमेव । अनिच्छाया च केशभूयस्त्वे नियतम् । मृता वा एषा त्वगमेध्या यत्केशश्मश्रु मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेघमुपैतीति पुरुषसस्कारद्वारेणाङ्गत्वात् । मृता वा एषा त्वगितिलिङ्गात् " नख- भूयस्त्ववद्रोमोमो भूयस्त्वमपि न सहते ॥ 2 1 4 [चशब्दार्थविवरणम्, यशाङ्गत्वादिपक्षाः सूत्रे नखोपलक्षणं च] चशब्देन - नुमीयते – अपर्व काले च कर्मण्यप्रवृत्तेऽपीच्छायां सत्यां कुर्यादति । केचित्प्रकरणादेव कर्माङ्गत्वे पर्वग्रहणात्कर्मणोऽ- नङ्गमिति। अन्ये त्वपर्वकालेऽपि दर्शपूर्ण मासप्रवृतौ कर्तव्यमित्याहुः यज्ञियो भूत्वा मेघमुपैतीति लिङ्गात् । केशवस्वामिमते तु लोमनखवपन- प्राप्त्यर्थश्चकार इति । स्वमते केशश्मश्रुग्रहणं समानदेशस्य नखस्यापि प्रदर्शनम् ॥ [सूत्रे लोमग्रहणस्योपलक्षणता सूत्रार्थश्च] आप्यल्पशो-मणि- लोमग्रहणं प्रदर्शनार्थम् ; अस्यार्थ:- ] लोमानि तनूरुहाणि तान्यल्पान्यपि वापयितव्यानि केशश्मश्रुकल्पं सत् उपेक्ष्य- ताम् । प्रकृतमेव वा श्मुश्रु लोमशब्देन विवक्षितम्, लोर्माविशेषत्वाच्छ्मश्रुण. । अल्प- मपि श्मश्रु वापयत एव । केशास्तु अल्प सन्तो नोप्येरन् (रु). 2 नखवदचित्भागो- गमोरोमाणा भूयस्त्वम् –घ. नखवेत्त्वग्भागोद्गमरोम्णा भूयस्त्वम् (मु रा ) 3 कालेऽपि च-घ. कर्मप्रवृत्तोऽपि - क. 4 “ ङ्गत्वेपर्वक–ख, ग ज्ञत्वे सिद्धे पर्व - क. 6 पूर्व - ख. ग? 5