पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १, सू १० [विकृतिषु विवक्षितार्थोपलक्षणप्रकारः] (भा) विकृतौ सद्यस्कालायामूह एव । यस्मिंश्चाहनि प्रयुज्यते तस्योपलक्षणम् । इमामूर्जमेकादशीमिति || [क्वचिदुपलक्षक शब्दविशेषाः] नामधेयविकारश्च यासामस्ति तासां तेनैवोपलक्षणम् ; यथा चैत्रं हविरिति । पञ्चदश्याः परतः प्रथमां द्वितीयामिति ॥ 362 [प्रसक्तविरोधपरिहारेणोपलक्षणतानिर्वाहः ] (वृ) विकृतौ सद्यस्कालाया–पलक्षणम् – अन्वाधानकालतिथेः इमामूर्ज पञ्चदशीमिति यक्ष्यमाणदेवतापरिग्रहार्थत्वात् कालपरत्वा- भावान्न पञ्चदशीविवक्षा । ततोऽन्वाधानतिथ्युपलक्षणम् । यथा - इमामूर्जमेकादशीमिति – पर्वणि त्या का दीक्षेति पक्षे दीक्षणीयायां गुणविकृतीनां पूर्वस्यां पौर्णमास्या पूर्वस्याममावास्याया- मिति चतुर्दश्या प्रवृत्तौ पञ्चदशीशब्दस्य लोप । पथिकृन्मुखे च ॥ [उपलक्षकनिर्णय लिङ्गम्] - नामधेय - हविरिति — ता इष्टय इत्याचक्षते परोक्षणेति लिङ्गात् ।। पञ्चदश्या: -यामिति - - न षोडशीं न सप्तदशीमिति त्रिंशिनो मासाः पञ्चदशिनोऽर्घमासाः इति दर्शनात् त्रिंशद्गणनायां षोडश्या- युपलक्षणमपि प्राप्तमिति प्रतिषिध्यते । अमावास्याया च पञ्चदशी - मित्येव प्रकृतौ निवेशात् ; अर्धमासे देवा इज्यन्ते । त्वया होता सत- नोत्यर्षमासानिति दर्शनाच्चार्षमासमात्रोपलक्षणस्य कर्तव्यता | 4 1 यथा चैन्द्र–ग 2 मेकदीक्षा पक्षे क 8 चित्रायामिष्टौ गुणमात्र विकृतासु प्रकृतिष्वप्यूद दाक्षायणयज्ञादौ नामधेयोपदेशस्य प्रयोजनाभावात् । अनामधेयासु सामान्यनामधेयेनैष्टं हविरिति- क. घ. 4 क्षणमिति प्रतिषिभ्यते-क.