पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निदानकार: 1 इतिनिदानकारमति. ' इति भाष्यवचोऽनुरोधे निदाना- नन्तर्गतमेव छन्दोविचितिसूत्रं निर्दिशतीति ज्ञायते । पिङ्गलनागीया सर्वसाधारणी मता इत्येतदालोचने याजुष्यपि छन्दोविचितिस्सैवेति निश्चयस्स्यात् । यादवप्रकाशैश्च याजुषीत्येव छन्दो- विचितिः परिगृहीता व्याख्याता च । पिङ्गल- च्छन्दोविचितौ च इदं वचनं न पश्यामः । धूर्तस्वामी च याजुषीमेव छन्दोविचितिं निर्दिश- तीत्यत्र च संशयः । ततश्च क्व स्यादिद वचन मिति परिचिन्तनीयम् । सर्वः पूर्वपक्षो दर्शस्य इति निदानकारमतिः' इति सर्वमहः प्रातराहुते इति निदानसूत्रं' इति च भाष्यम् । निदानसूत्रं नाम पतञ्जलिप्रणीतः छन्दोगाना परि- करभूतेषु द्विपञ्चाशत्सु ग्रन्थेषु कल्पसूत्रं तथा क्षुद्रं लाट्यायनकमेव च । उपग्रन्थः पञ्चविधो निदानं ताण्ड्यलक्षणम् || अनपत्स्थानुस्तोत्रं कल्पानुपदमेव च । एतद्दशविधं सूत्रं सामगेषु च विश्रुतम् ॥ इत्युक्तेषु सूत्रनिबन्धेष्वन्यतमम् । लाट्यायनमनुपदं निदानं कल्पमेव च । उपग्रन्थाश्च क्षुद्राश्च तण्डालक्षणमेव च ॥ सूत्रं पञ्चविधीयं च कल्पानुपदमेव च । अनुस्तोत्रं च विज्ञेयं दशसूत्रप्रकीर्तनम् ॥ इति तत्रैव पाठान्तरम् । भगवान् पतञ्जलिरेव निदानसूत्रकर्तेति तु - निदाने भगवानाह बहुवित्त पतञ्जलिः इति षोडशी विचारे रुद्रस्कन्दोकथाऽपि निधीयते ।