पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख २, सू ५ 368 (भा) नावर्तत इष्टिबहुत्वे ॥ 1 (सू) अमाषमांसमाज्येनाश्नीयातां तदभावे दना पयसा वा ॥ ५ ॥ १५ ।। ६८६ ।। [आज्येनाशनविधिमाषमांसनिषेधतात्पर्य पक्षान्तरं च] (भा) आज्येनेति व्यञ्जननिवृत्ति मधुवत् । माषमांसस्य प्रतिषेषोऽ- भ्यवहार्यस्य व्यञ्जनार्थस्य प्रतिषिद्धत्वात् । कोचत् 2 स्नेहानां तैलादीनां निवृत्तिस्तुल्यत्वात् || · [आवृत्तिनिषेधः] आज्येन (वृ) नावर्तत इष्टिबहुत्वे - - एतत्कालोत्तर क्षुषि इच्छायां च नाशनम्॥ [ व्यञ्जननिवृत्तितात्पर्योपपत्तिः] व्यञ्जननिवृत्तिर्मधुवत् – 'अमध्वश्नाति मध्वश- नस्स्यादित्येकम् व्यञ्जनार्थमित्यपरम्' इति दर्शनात् आज्यमनातीत्य- बचनात् नाज्यमात्रस्याशनम् । किं त्वितिकर्तव्यताभूनत्वेन निर्देशा- चुल्यक र्यव्यञ्जननिवृत्तिः ॥ [ व्यञ्जनार्थस्य प्रतिषेधलाभः] माषमांसस्य - षिद्धत्वात् – आज्येन व्यञ्जननिवृत्तिरुत्तेति । [स्वेतरस्नेहसामान्यनिवृत्तिलाभनिर्वाहः ] केचित्त्रे – स्तुल्यत्वात् — तुल्यकार्यत्वादाज्येन । तस्मिन् पक्षेऽन्येषां व्यञ्जनानां प्रवृत्तिः । माषमांसप्रतिषेधो व्यञ्जनार्थस्या- शनार्थस्य च । 'अमेध्या वै माषा' इति दर्शनात् अमेध्यस्य व्यञ्जनार्थेऽ- प्यमोज्यत्वात् । व्रत्येऽहनि मांस नाश्नातीति मांसस्य यथाकथञ्चित्प्रा- शनमात्रे प्रायश्चित्तविधानात् ॥ 1 माषमासयो. व्यञ्जनार्थयो प्रतिषेधः । आज्यादीनि तु उपसेके नियम्यन्ते । माषशब्दो मुद्गादेरपि कोशाधान्यस्य प्रदर्शनार्थ आप्राशातिकादिति लिङ्गात् बोधायनोफेश्च (रु). 2 स्नेहादीना- घ.