पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाष्यम्; - अश्वप्रतिहेष्टिविषये कपर्दिभाष्ये (७७ पत्रे), - 'अत्र भाष्ये विप्रतिपत्तिः प्रतिग्रहीतुरिष्टिः प्रतिग्राहयितु- रिति ' इत्युक्तम् । किमीयमिदं भाष्यम् ? कल्पभाष्यम् वेदभाष्यं वेति विचारणीयम् । श्रीभाष्यकारपरिगृहीतक्रमे गुहदेवकपर्दिस्वामिनोः पूर्वापरभावेन निर्देशात् गुहदेवस्वामिन एव भाष्यं निर्दिष्टं स्यादिति संभावयाम । वेदभाष्यम्, –' वेदभाष्यानुसारेण यथाशक्ति प्रकल्पितम् ' । इति रामाण्डारवृत्तेरारम्भे वेदभाष्यनाम निर्दिश्यते । कस्येदं वेदभाष्यं इति विचारणीयम् । उत्तरत्र वृत्ति- कारेण 'गुहदेवस्वामिना ब्रह्मयज्ञप्रकरणे व्याख्यातम्' इत्युक्ते. इह तमेव गुहदेवस्वामिनं भाष्यकार इति निर्दिशतीति संभावयामः । २ कल्पोपाध्यायः, - 'न गर्भिणीं दीक्षयेत्' इति गर्भवत्पश्वालम्भन- निषेध इति कल्पोपाध्यायेन व्याख्यातस्सोमाधाने ' इति रामाण्डारः (१० प्रश्न ) । १ कपर्दिस्वामी, –' द्वादशप्रथमराश्योः सूर्योदयकालो वसन्तः इति कपर्दिस्वामी' इति रामाण्डारः (१० प्रश्न)। केशवस्वामी, –'निशायां द्वितीययामे इति केशवस्वामी ' इति । शमीगर्भस्याश्वत्थस्यारणी आहरतीति केशवस्वामी ' इति च रामाण्डार. । अयं च केशवस्वामी प्रयोगसाराख्यश्रौतनिबन्धकर्ता, -- श्रियः पतिं नमस्कृत्य काण्वं च मुनिपुङ्गवम् । प्रयोगसारं वक्ष्यामि केशवोऽहं यथामति ॥ इति प्रयोगसारारम्भ उक्तेः । 'नारायणादिभिः प्रयोगकारः एकं पक्षमाश्रित्य दर्शपूर्ण- मासादीनां प्रयोग उक्तः । भवस्वामिमतानुसारिणा म तु भवभाष्यमङ्गीकृत्य प्रयोगसारः क्रियते । d* "