पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ३, सू १५ ] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल (भा) (सू) (भा) (सू) (सू) (सू) [विकृतेरपि यहकालत्वमस्ति] आरण्यायोपवत्स्यन्निति वचनात् विकृतेरपि यहकालत्वमस्ति ॥ 1 जञ्जभ्यमानो ब्रूयान्मयि दक्षत्रतू इति ॥ १२ ॥ ३३ ॥ ७०४ ॥ जलभ्यमानो - जृम्भमाण ॥ अमावास्यां रात्रि जागर्ति ॥ १३ ॥ ३४ ॥ ॥ ७०५ ।। 2 अपि वा " सुप्यादुपरित्वेव न शयीत ॥ १४ ॥ ॥ ३५ ॥ ७०६ ॥ अपिवोपरि शयीत 3 ब्रह्म (व्रत) चारी त्वेव 977 स्यात् ।। १५ ।। ३६ ॥ ७०७ ॥ [प्रकृतव्रतशब्दार्थः] (भा) व्रतोपायनादनन्तर मैथुनप्रतिषेध । व्रतचारी त्वेव स्यादिति व्रतशब्दो मैथुन प्रतिषेधार्थ ॥ [ भाष्यदर्शिताभिप्रायोपपत्तिः उपदेशपक्षश्च] आरण्या - मस्ति--आरण्यद्रव्यस्य विकृत्यर्थतयोपवासदर्श- नात् । अतश्च यर्दाष्ट्यादिवाक्यविहितसद्यस्कालत्वेन ग्रहकालत्वं ' विकल्प्यते । उपदेशस्तु व्रीहियवालाभे सामान्यान्नीवारे प्रतिनिहि- तस्य मुख्यद्रव्यधर्मत्वेन ग्राम्योपवासस्यैव प्राप्तावुभयार्थत्वमिति न सद्यस्कालायामारण्याशनम् ; सायमाशेऽश्नातीति वचनात् ॥ [ब्रह्मचर्यविधिसिद्धस्य पुनर्वचनतात्पर्यम्] व्रतोपा - षेधार्थः – अथवा ब्रह्मचर्यविधानात् सङ्कल्पप्रभृति मैथुनप्रतिषेघे पुनर्वचन व्रतोपायनादूर्ध्वं प्रायश्चित्तगौरवार्थम् || 2 जागरणा 1 कर्ममध्ये यदा जृम्भते तदा प्रायश्चित्तार्थमेतद्यजुर्जपेत् (रु) शक्तौ सुप्यात् । उपरिशयनमेव तु वर्जयेत् (रु) 3 सर्वथाऽपि तावत् ब्रह्मचर्य पालयेदित्यर्थ. (रु). 4 प्रतिषेधपर -क. घ. 5 विकल्पते - घ