पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

380 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ४, सू ३ यत्करोषि यदश्नासि यजुहोषि ददासि यत् । यत्तपम्यास कौन्तेय तत्कुरुष्व मदर्पणम् || ब्रह्मार्पण ब्रह्महविः ब्रह्मामौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || इति स्मृतेश्च । कथमात्मने ब्रह्मणे इत्युच्यते ? उच्यते, ,—य आत्मनि तिष्ठन्नात्मनोऽन्तरो+यमयति यस्यात्मा शरीर स आत्मेति जीव- शररिके अन्तर्यामिण आत्मशब्दप्रयोगात् तस्य च परमात्मत्वात् परमात्मनो ब्रह्मत्वेन सर्वशाखाप्रसिद्धत्वात् । नारायण. परं ब्रह्म आत्मा नारायण परः । ● इति नारायणपरब्रह्मपरमात्मशब्दानां सामानाधिकरण्यात् नारायणं महाज्ञेयम्' इति सर्वदा ज्ञेयत्वात् 'यदेव विद्यया करोति तदेव वीर्यवत्तरम्' इति श्रुतेश्च । कथमन्याभ्यो देवताभ्यः क्रियमाणं कर्म ब्रह्मेति ध्यायेत् ? यो देवानां नामधा एक एव । स ब्रह्मा स शिवः । चतुर्होतारो यत्र संपद गच्छन्ति देवै । सर्वे वेदा यत्रैक भवन्ति ' इत्यादिश्रुतौ सर्ववेदाना नामधारकत्वेन सर्वदेवस्वरूपत्वेन सर्वयज्ञैरिज्य- त्वेन सर्वविधिवाक्यैर्विधेयत्वेन चावगमात् । चतुर्होतृशब्देन सर्व- यज्ञा उच्यन्ते ' स एताश्चतुर्होतॄनात्मस्परणानपश्यत्' इति । वेद- शब्दो मन्त्रब्राह्मणयोः 'मन्त्रब्राह्मण योर्वेदनामधेयम्' इति वचनात् । । अह हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम् । इत्यादिस्मृतेश्च ॥ 6