पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

lhi इत्यपि तत्रैवाह । यद्यपि भवस्वामी बोधायन- कल्पसूत्रभाष्यकृदिति नीयते । काण्वं मुनिं स्व- ग्रन्थादौ नमस्यन् तच्छाखा श्रौत प्रयोगकार इत्यपि निश्चेतुं शक्यते । तन्नामधेयस्तच्छाखाभाष्यकृदपर- एव वा स्यात् इत्यपि । तथाऽपि बोधायनस्य कण्वतनयत्वप्रसिद्धया बोधा- यनस्यैवायं काण्व इति निर्देश इति नानुपपत्ति । गुहदेवस्वामी, – ६ प्रश्ने ७ पटले 'अरण्यावसाने ग्रामसीमान्तप्रभृति छदिर्दर्शनम्' इति ब्रह्मयज्ञप्रकरणे गुहदेवस्वामिना अछदिदर्श इत्यस्य व्याख्यानावसरे उक्तत्वात् ' इति रामाण्डारः । श्रीभाष्यकारैः वेदार्थसङ्ग्रहे प्राचीनवेदव्याख्यातृत्वेन गुहदेवस्वामी परिगणितः । अस्य च वेदभाष्यं श्रीभाष्यकारैः स्वसिद्धान्तानुकूलार्थपरमिति गृही- तम् । तदभिप्रायेणैव श्रीमन्निगमान्तगुरुभिः यति राजसप्ततौ;- निरातङ्काष्टकद्रमिडगुहदेव प्रभृतयः- इति श्रीभाष्यकारपरिगृहीत सिद्धान्तप्रवर्तकेषु पूर्वपुरुषेषु गुहदेव- स्वामी गृहीतः । पक्षिमतम्- कपर्दिभाष्ये - १६, १८, पत्रयोः 'श्वो वा पक्षिमतात्' इत्यु- च्यते । कोऽयं पक्षी नाम कश्च तदीयनिबन्ध इति विचारणीयम् । पक्षिल इति च न्यायदर्शनभाष्यकृतो वात्सायनस्य नामनिबन्धुभि र्यवाहियते वाचस्पतिमिश्रादिभिः । स एव तथाविधोऽन्यो वेति न निश्चेतुं पारयामः । बैजवापिः, 'तत्पुत्र शिष्यादयः प्रतिप्रस्थात्रादीन्यात्विज्यानि कुर्व- न्तीति बैजवापिः' इति भाष्यम् । भवदासः, - उपाकृतहोमे आज्यं प्रस्तुत्य 'लौकिकाज्यादिति भव- दासमतिः' इति भाष्यम् ।