पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

384 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. ४, सू९ च (भा) अदृष्टप्रधानोपकारकत्वाच्च । अतस्सान्नाय्यतन्त्रास्वाज्यतन्त्रास्वपि पशौ च क्रियते ' पात्राभिमर्शनोत्तरकालम् | न च पुनः पशुपुरोडाशे || [औपदेशिकपक्षः सर्वशब्दाशयश्च] औषधार्थमित्युपदेशः ॥ (वृ) अदृष्ट रकत्वाचेति – ओषधि काण्डोपकारकत्वाभावाददृष्टार्थत्वात् सर्वप्रधानार्थत्वम् ।। [ न च पुनरिति भाष्यार्थे विवरणम् ] न च पुनः पशुपुरोडाशे – पश्वर्थं कृतत्वात् । [उपदेशपक्षाशयविवरणम् ] औषधार्थामत्युपदेशः - औषधकाण्डपाठान्मन्त्रस्य । अस्मिन् - पक्षे अथशब्दोऽर्थकृत्यप्रतिषेधार्थः । कथ पूर्वत्राथशब्दानर्थक्यपरि हाराय सर्वप्रधानार्थत्वमुक्तम् ? उच्यते ;—आनन्तर्यमेवाथशब्दस्य मुख्यार्थ. नार्थकृत्यप्रतिषेधः । क्रमोपदेशादेवानन्तर्ये सिद्धे मङ्गलाद्य- र्थान्तरासभवादानर्थक्ये प्राप्ते तत्परिहारार्थमगत्याऽऽश्रियते क्रमनियमार्थ- लक्षितोऽर्थकृत्यप्रतिषेधः ॥ ननु प्राप्तस्य पुनर्वचन नियमार्थमिति क्रमनियम एवाथशब्दस्य मुख्योऽर्थः सभवति? न क्रमनियम एव सूत्रकारेण क्रियते । अङ्गानां युगपदनुष्ठानासभवादेवानियम क्रमप्राप्त एव । 2 सूत्रकारानुक्रमणस्य नियमार्थत्वाभावे च ‘त्व नो अग्ने ' इति क्रमलोपप्रायश्चित्त न कार्यं स्यात् । अतो मुख्यार्थसंभवे न लक्षणेति अथशब्दस्यारम्भार्थत्वेन पूर्वप्रकरण- विच्छेदात् सर्वार्थत्वम् ।उपदेशपक्षस्तु सूत्रकारशीलानुविधानेन क्वचिदपि प्रकरणभेदार्थं सूत्रकारो न प्रयुक्तवान् पुनः पुनरर्थकृत्यप्रतिषेधे प्रयुक्त 'वांश्च औषधकाण्डे अध्ययन चानुग्रहीष्यते इति ॥ , 1 पात्रप्रयोगोत्तर- ग. 2 क्रम प्रा-क. 3 वा श्वेत्यध्ययन -क.