पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

liii भवस्वामी : – ( ६-५) 'पाश्चैनोपस्थानमिति १ भवस्वामी इति; भव- स्वामिमतिस्तु नक्कमुपतिष्ठते न प्रातरित्यत्र वाक्य- भेदभयात् न प्रातरित्यनुवादः इति च रामाण्डारः । साक्षात्परम्परया च यशव्याख्यातारो भवदासभव- स्वामिभवढेवभवनाथाः श्रूयन्ते । तत्र भवदास, –' वृत्त्यन्तरेषु केषांचित् ' (श्लोकवा ३३) 'केषांचित् - भवदासादीना' इति तत्र पार्थसारथि - मिश्रटीका | 'भवदासेनापि कृतं जैमिनीये भाष्यम्' इति प्रपञ्च- हृदयकारः । एतदुत्तर द्वितीयं सङ्कर्षकाण्डं विहाय शवरस्वामिना संक्षेपेण कृतम्' इत्यत्रत्यवाक्यादपि भवदासादर्वाचीनश्शबरस्वामीत्यवगम्यते । 46 भवस्वामी च बोधायनश्रौतसूत्रभान्यकृदिति तद्न्थे प्रकरणान्तेषु निर्देशादवगम्यते । आदौ च न कापि कोगे तत्कृतिरिति निर्दिश्यते । रामाण्डारे च पार्श्वेनेत्यादिवाक्यस्य भवस्वामीयत्वमुच्यते । भवस्वामिभाष्ये तु सर्वाग्न्युषस्थानप्रकरणे 'तस्मादीषत्तिर्यङ्ङिवो- पतिष्ठते' इत्येव पतिर्दृश्यते । यद्यपि १६२२ सङ्ख्याते तालकोशे अग्निग्रन्थान्ते, इति भवस्वामिकृते बोधायनकल्पविवरणे' इति लेख : ततः 'पञ्चह- सहस्रग्रन्थोपरि त्रिशतग्रन्थो भवनाथमिश्र' इत्येतावति त्रुटितपत्र- शेषो लेखश्च दृश्यते तेन च एतद्द्भून्थसंख्या प्रदर्शन पूर्वकभवनाथ- मिश्रनामग्रहणेन भवनाथस्यैतत्कर्तृत्वकीर्तनायैव लेखक प्रवृत्तिस्सं- भावयितुं शक्यते । सति चैरं नाथस्वामिपदयोः पर्यायत्वबुद्धया एकस्यैव भाष्यकृत उभ्यथा व्यपदेशः प्रवृत्त इत्यपि वक्तुं शक्यम् | - भवस्वामिवचनं रामाण्डारगृहीतं नात्र पश्याम इत्यन्य एवा- सौ भवस्वामी वाच्य इत्यपि चिन्तयितुमस्त्यवकाशः ।