पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत् ग्रन्थबाहुल्यभयादुपेक्ष्य किञ्चित्संक्षिप्तं उपवर्षेण कृतम् । तदपि मन्दमतीन् प्रति दुरुपपादं विस्तीर्णत्वादुपेक्ष्य षोडश- लक्षणपूर्वमीमांसाशास्त्रस्य देवस्वामिनाऽतिसंक्षिप्तं कृतम् । भवदासेनापि कृतं जैमिनीये भाष्यम् । पुनर्द्विकाण्डे धर्म- मीमांसाशास्त्र सङ्घर्षकाण्ड द्वितीयमुपेक्ष्य पूर्वस्य तन्त्रकाण्डस्य आचार्यशबरस्वामिनाऽतिसंक्षिप्तं कृतं भाष्यम् । तथा देवता काण्डस्य (संकर्षेण) संकर्षणेन इति। [प्रपञ्चहृदये उपाङ्गप्रकरणे लेखो दृश्यते] अनेन च सङ्कर्षणो नाम देवताकाण्डभाष्यकार इति तत्र व काण्डे शवरस्वामिना भाष्यस्याकरणेऽपि तत्पूर्वकालिकैः ठेव- स्वामिभवदासोपवर्षबोधायनैर्भाप्याणि प्रणीतानीति चावगम्यते || तत्र श्रीशङ्कराचार्यैः 'तदुक्तं सर्पे' इति श्रीरामानुजा- चार्ये: 'तदुक्तं साङ्कर्षणे' इति श्रीभाष्ये : सङ्कर्षे इति, वेदान्तदीपे चानूद्यमानः; G

, Ivi ' “कर्मणां प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थसाधनता- निश्चयः 'प्रभुत्वादार्त्विज्यम्' इत्यन्तेन सूत्रकलापेन * सङ्कर्षणेन कृतः इति सारग्रन्थे द्वादशाध्याय्युत्तरतच्छेषभूतविचारपरसूत्र- निबन्धतया गृहीतः । शङ्करभाष्यप्रकटार्थटीकाकारै., ' सङ्कर्षे-देवताकाण्डे' इति शङ्करभाष्यरत्नप्रभायां सङ्कर्षो देवताकाण्डम् 6 , . ५ विव्रियमाणः, इति व्याख्यातः : रत्नप्रभाविवरणे आनन्दगिरिभिः -'संकृष्यते कर्मकाण्डस्थ- मेवावशिष्टं कर्म संक्षिप्योच्यते इति सङ्कर्षो देवताकाण्डम्' इत्युप- पाद्यमानः धूर्तस्वामिनाऽपि 'इति सङ्कर्षकारमतिः' 'सङ्कर्षणकारमतिः ' सङ्कर्षकार: ' 'सङ्कर्षपक्षः' 'सङ्कर्षवचनात् ' इति विविधनिर्देशः

  • मकर्षणेनेतिसाहित्ये तृतीया ससकर्षणेनेति पाठस्तु सुगमार्थ ।