पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

424 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १५, सू ३. प्राणं यद्यभिचरेदिदमहम मुष्यामुष्यायणस्य निवेष्टयामीति दक्षिणस्य पदः पार्ष्या निमुद्री- यात् ।। ३ ।। २३ ॥ ८०२ ॥ [ अत्र नामग्रहणविशेषविवरणम] (भा) आमुष्यायणग्रहणेन गोत्रतद्धितेनाभिधानम् । इदमह देवदत्तस्य गार्ग्यस्येति । यत्र त्वन्यदामुष्यायण तत्र तेनैव; यथा वत्सस्य प्राण- मिति ॥ [प्रवरेषु विशेष:] आचार्यामुष्यायणमनुब्रुवीताचार्यप्रवर वृणीतेति प्रवरमामुष्याय- त्पृथग्दर्शयति ॥ [आमुष्यायणशब्दार्थे पक्षान्तरम् ] आमुष्यायणग्रहणे पितुर्नामेति हिरण्यकेशिन देवदत्तस्य याज्ञदत्तेः प्राण निवेष्टयामीति ॥ (वृ) सस्कारत्वम् । तस्मादुत्तरे विहारे वरुणप्रघासेषु तस्य मुख्यत्वात् अन्यतरसबन्धिनां तत्रैव युक्तत्वात् । अवेदिसस्कारत्वादिति भाष्य- कारेण वेदिसस्कारनिषेधात् वेद्यां दक्षिणतो विष्णुक्रमादि न बहिर्वेदीति सिद्धम् || [तद्धितान्तप्रयोगस्थलम्] आमुष्यायण - भिधानम् – यद्यभिचरेढिदमह इत्यत्र । इदमहं - प्राणमिति – यथा 'वैश्यानाम् । इदमह देवदत्तस्य वात्स्यस्य प्राण निवेष्टयामीति, तेषा प्रातिस्विकगोत्राभावात् || 1 आमुष्यायणस्येति गोत्रनिर्देश । बबर प्रावाहणिरित्यादिवत्पितृनिर्देश इत्यन्ये 2 भ्रातृव्य पीड्यमान बुध्चा पार्ष्या भूमिं निपीड़येत् (रु). 3 थग्भूतम्- 4 वात्सानाम्-ख. ग. घ